________________
भतिश्रुतमेदः ]
न्यायप्रकाशसमलते इन्द्रियविभागादपि तयोर्भेदः, श्रुतं हि श्रोत्रेन्द्रियद्वारकमवग्रहाद्यनात्मकं ज्ञानं, मतिज्ञानं च सर्वेन्द्रियद्वारकम् , यद्यपि शेषेन्द्रियद्वाराऽक्षरलाभोऽपि श्रुतमेवेति सर्वेन्द्रियविषयत्वं श्रुतस्य प्राप्तं तथाप्यक्षरलाभमात्रस्य न श्रुतत्वमीहादीनामपि तथात्वापत्तरपि तु श्रुतानुसारिसाभिलापरूपाक्षरलाभस्यैव, तस्य च शेषेन्द्रियद्वारोत्पन्नत्वेऽपि योग्यतया श्रोत्रेन्द्रियोपलब्धित्वमेव, अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वात् । तथा च श्रोत्रविषयमेव सर्वं श्रुत- 5 ज्ञानं मतिज्ञानन्तु तद्विषयं शेषेन्द्रियविषयश्चेति । वल्कशुम्बोदाहरणात्तयोर्भेदस्तु-मतिपूर्व हि भावश्रुतं मतिश्च वल्कसमा, भावश्रुतं शुम्बसदृशं, यथा वल्काः शुम्बकारणं तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं वल्कानां कार्य तथा भावश्रुतमपि मतेः कार्य, मत्या विचिन्त्य वाच्यवाचकभावेन वस्तुनि परोपदेशश्रुतग्रन्थानां योजनात् । अक्षरानक्षरभेवादपि तयोर्भेदः अक्षरं द्विविधं द्रव्याक्षरं भावाक्षरश्चेति, पुस्तकादिन्यस्ताकारादिस्ताल्वादिकारणजन्यशब्दो 10 वा द्रव्याक्षरम् । अन्तःस्फुरदकारादिवर्णज्ञानं भावाक्षरं, भावाक्षरापेक्षया मतिज्ञानमभरवत् यथेहादयः, भावाक्षराभावादेवावग्रहरूपं मतिज्ञानमनक्षरम् । द्रव्याक्षरमाश्रित्य तु मतिज्ञानमनक्षरमेव, द्रव्यमतित्वेनाप्रसिद्धत्वात् । श्रुतज्ञानन्तु द्रव्यभावभेदं साक्षरमनक्षरमपि. द्रव्यश्रुतं उच्छ्वसितनिःश्वसितादिरूपमनक्षरं पुस्तकादिन्यस्ताक्षररूपं शब्दरूपं च, तदेव साक्षरम् । भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात्साक्षरं, पुस्तकादिन्यस्ताकाराद्यक्षररहि- 15 तत्वाच्छब्दाभावाच्चानक्षरम् । पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तर्गतत्वेन भावश्रुतेऽसत्त्वात् । मूकेतरभेदात्तु तद्भेदः-द्रव्यश्रुतं हि श्रुतज्ञानस्यासाधारणं कारणं तच्च परप्रतिबोधनसमर्थमतइश्रुतज्ञानमपि तद्भटकत्वेन परप्रतिबोधकत्वान्न मूकम् , मतिज्ञानस्येदृशकारणेन केनाप्यघटकत्वेन परप्रतिबोधनासमर्थत्वान्मूकम् । न च करादिचेष्टा मतिजनिकाः परप्रतिबोधनसमर्थाः सन्तीति मतिज्ञानस्य कथं मूकत्वमिति वाच्यम् , करादिचेष्टान मतिज्ञानं प्रत्यसाधा- 20 रणकारणत्वाभावात् करवक्त्रसंयोगादिचेष्टादर्शनतस्तद्विषयावग्रहादिवद्भोक्तुमिच्छत्ययमित्यादिश्रुतानुसारिविकल्पात्मकश्रुतज्ञानस्यापि जायमानत्वात् । तत्त्वतः करादिचेवानां मतिज्ञानं प्रति कारणत्वाभावेन तासां तत्रानन्तर्भावात् । यद्वा पुस्तकादिन्यस्ताचारादिग्रन्थाक्षरं गुरुज.
१. अत्र श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमित्ययोगव्यवच्छेदोऽभिमतः, न तु श्रोत्रेन्द्रियोपलब्धिश्रुतमेवेत्यन्ययोगव्यवच्छेदः, कस्याश्चिच्छोडेन्द्रियोपलब्धेरवग्रहादिमात्ररूपाया मतिज्ञानत्वादित्याशयेन शेषेन्द्रियद्वारकमित्यनुक्त्वा सर्वेन्द्रियद्वारकमित्युक्तम् ॥ २. तथा च मतिज्ञानमवग्रहापेक्षयाऽनक्षरवत् ईहाद्यपेक्षया चाक्षरवत् । द्रव्याक्षरापेक्षया चानक्षरवदेव, नहि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जन,क्षरं विद्यते तस्य द्रव्यश्रुतत्वेन प्रसिद्धत्वादिति भावः ॥ ३. अत्रेदं बोध्यं मते वश्रुतस्य चाक्षरानक्षर कृतो विशेषो नास्ति, उभयस्य साक्षरत्वादनक्षरत्वाच्च, परन्तु श्रुतमध्ये द्रव्यश्रुतस्याप्यन्तर्भावेण द्रव्यश्रुतमाश्रित्य द्रध्याक्षरमस्ति मतौ तु तन्नास्तीति भेदो विज्ञेय इति ॥ .