________________
: ४६ :
तस्वन्यायविभाकरे
[ द्वितीयकिरणे
भ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य च दर्शनेऽपि सौक्ष्म्यादुत्पलपत्रशतव्यतिभेद इवावग्रहादिक्रमो नोपलक्ष्यत इति भावः ॥
तदेवमिन्द्रियांनिन्द्रियजभेदेन सांव्यवहारिकप्रत्यक्षं निरूप्य द्वयोरप्यनयोर्मतिश्रुतभेदत्वेन द्वैविध्यात्प्रथमतो मतिज्ञानं लक्षयति
इन्द्रियमनोऽन्यतरजन्योऽभिलापनिरपेक्षस्स्फुटावभासो मतिज्ञानम् ॥
इन्द्रियेति । इन्द्रियमनोऽन्यतरजन्यत्वे सति अभिलापनिरपेक्षज्ञानत्वं लक्षणम् । अत्र स्फुटावभासत्वपदं सर्वज्ञानानां स्वांशे स्पष्टावभासत्वमेवेति सूचयितुं, तेनास्य परोक्षत्वेन कथं स्वप्रकाशत्वमिति शङ्का निरस्ता । श्रुतज्ञानवारणाय विशेष्यम्, अवध्यादिवारणाय विशेषणम्, अभिलापनिरपेक्षत्वञ्च श्रुताननुसारित्वं तत्र श्रुतानुसारित्वञ्च धारणात्म 10 कपदपदार्थसम्बन्धप्रतिसन्धानजन्यत्वं तेनेहापायधारणात्मकेषु मतिज्ञानविशेषेषु पदवि - यतायास्त्वेऽपि नाव्याप्तिः, तत्र पदविषयतायास्सविकल्पक सामग्रीमात्रप्रयोज्यत्वात्, न चेहादीनि पदपदार्थप्रतिसन्धानजन्यज्ञानानि, घट इत्याद्यपायोत्तरमयं घटनामको वे संशयादर्शनात् तत्तन्नाम्नोऽप्यपायत्वेन ग्रहणात् पदपदार्थसम्बन्धप्रतिसन्धानाभाववतोऽपि पुरुषस्याभ्यासपाठवेन तदुदयाश्च । संकेतग्रहकाल एव हि श्रुतानुसारित्वमीहादीनां न तु 15 व्यवहारकाले । अत एव मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधः “न मई सुअपुशिया " इत्यनेनाभिहितः । श्रुतज्ञानं प्रति धारणात्वेन मतिज्ञानस्य हेतुत्वेन तद्धारणोपयोगे ' इदं पदमस्य वाचकं, अयमर्थं एतत्पदवाच्य ' इति पदपदार्थ सम्बन्धग्रहस्यापि धौत्र्येण तज्जनितज्ञानस्यैव श्रुतानुसारित्वं अत एव च श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः ' मइ
सु' इत्यनेन कृतः । व्यवहारकाले जायमानावग्रहादीनां श्रुतोपयोगाभावादेव पद20 पदार्थसम्बन्धवासनाप्रबोधकालीनत्वेऽपि श्रुतनिश्रितमतिज्ञानत्वम् स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालीनत्वे सति श्रुतोपयोगाभाव कालीनस्यैवाव ग्रहादेश्श्रुतनिश्रितत्वात् । उक्तत्रासनाप्रबोधकाले मतिज्ञानसामग्रीसत्त्वेऽपि श्रुतोपयोगे श्रुतज्ञानमेव जायते, श्रुतोपयोगस्योत्तेजकत्वात् परैरपि प्रत्यक्षज्ञानसामग्र्याः शाब्दबोवप्रतिबन्धकत्वेऽपि शाब्दे - च्छायां शाब्दबोधस्य स्वीकृतत्वात् । निरुक्तवासनाप्रबोधासमानकालीनश्च मतिज्ञानमौत्पत्ति25 क्यादिचतुर्भेदमश्रुतनिश्रितं भवति । अपूर्वाभयकुमारादिव्यक्तिविशेषबुद्धौ त्वौत्पत्तिकीत्वमे
5
१. यत्रैकस्मिन्वस्तुनि प्रत्यक्षज्ञानस्य सामग्री शान्दबोधस्य च सामग्री वर्त्तते तत्र प्रत्यक्षज्ञानमेव भवति न शाब्दबोधस्तत्र प्रत्यक्ष सामय्याः प्रतिबन्धकत्वात्परन्तु शाब्देच्छा यदि स्यात्तदा शाब्दबोध एव भवतीति शाब्दबोधे सेच्छा उत्तेजिका, तथैव प्रकृतेऽपीति भावः ॥