________________
सांव्यवहारिकम् ]
न्यायप्रकाशसमलते तथा चेति । कथश्चित्तेषां भेदे चेत्यर्थः, क्रमः, उत्पत्तिक्रमः, तथैवानुभवात् तथैव तत्तदावरणक्षयोपशमभावादिति भावः । इन्द्रियार्थयो:-विषयविषयिणोः, योग्यताख्येयथायोगमनतिदूरासन्नव्यवहितदेशाद्यवस्थानरूपे संश्लेषरूपे वा सम्बन्धे, सन्मानं दर्शनाख्यं निःशेषविशेषवैमुख्येन निराकारो बोधः । तस्यामिलापकं शब्दप्रयोगमाह इदमिति, तत इति तदुत्तरकालमित्यर्थः, अदृष्टस्यावग्रहणाभावादिति भावः । केनचिजात्यादिनेति, सत्त्वव्याप्य- 5 मनुष्यत्वादिजातिविशिष्टत्वादिनेत्यर्थः । अवग्रह इति, उदेतीत्युत्तरस्थेनान्वयः । व्यावहारिकावग्रहोऽयं, नैश्चयिकापायश्च । तत इति, विनावग्रहं सन्देहाभावादिति भावः । अनिर्धारितरूपेणेति, कस्यापि विशेषधर्मस्यानुपलम्भेन नानाधर्मप्रकारतयेत्यर्थः। तत इति संशयमन्तरेणेहाया अप्रवृत्तेरिति भावः । नियताकारेणेति यत्किञ्चिद्विशेषधर्मोपलम्भेनेत्यर्थः । संभावनात्मिकेति स्पष्टीयविषयताया अभावेऽपि तदुन्मुखत्वाद्विलक्षणप्रकारतावतीति भावः। 10 अनन्तरमिति, अन्तरेणेहामपायाप्रवृत्तेरिति भावः । न चावग्रहेहयोर्न ज्ञानत्वं संशयादिवत्स्पष्टार्थनिर्भासाभावादिति वाच्यम् , आत्मधर्मत्वे सति संशयविपर्ययानध्यवसायेष्वनन्तर्भावेण तत्सिद्धेः । न च निश्चयान्यस्य संशयरूपत्वेनाज्ञानत्वमिति वाच्यम् , निश्चयोपादानक्षणस्यापि सर्वथाऽज्ञानवप्रसङ्गात् , न चेष्टापत्तिनिश्चयस्याप्यज्ञानतापत्तेः । न चावग्रहस्यानिर्देश्यसामान्यमात्रावगाहित्वेनानध्यवसायत्वमिति वाच्यम् , तत्र साक्षादध्यवसा. 15 यत्वाभावेऽपि तद्योग्यतायास्सत्त्वात् , अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात् , . अतिमत्तमूञ्छितादीनामेव ज्ञानस्यानध्यवसायरूपत्वात् , तदुत्तरं तत्रापायादर्शनेन सद्योग्यताया अभावादिति । ईहिताकारेण निर्णयात्मक इति, तद्वृत्तिधर्मानुगमनतदवृत्तिधर्मव्य. तिरेकाभ्यां तद्धर्मवत्तानिश्चयरूपस्तदितरधर्माभाववत्तानिश्चयरूपो वेत्यर्थः । तत इति अवेतस्यैव धार्यमाणत्वादिति भावः, धारणेति, अविच्युतिरूपा वा तज्जन्यवासनासंस्कारशब्द- 20 वाच्याऽऽत्मशक्तिविशेषरूपा वेत्यर्थः । उदेतीतीति । ईदृशक्रमेणैवावग्रहादय उत्पद्यन्ते नोकमव्यतिक्रमाभ्यां न्यूनत्वेन वा, ज्ञेयक्षयोपशमस्येत्थमेव ज्ञानजननस्वभावत्वात् । कचिद
१. प्राथमिकनैश्चयिकार्थावग्रहापेक्षयास्यापायत्वेऽपि भाविविशेषापेक्षया सामान्यस्य ग्राहकत्वाझ्यावहारिकार्था वग्रहरूपत्वेन तदभिलापकशब्दसत्त्वे - बाधकाभावादित्याशयेनाह तस्याभिलापकमिति ॥ २. नैश्चयिकार्थावग्रहो निरुपचरित एकसामयिकत्वात्सामान्यवस्तुमात्रग्राहकः सामयिकानि हि ज्ञानादीनि वस्तूनि परमयोगिन, एवावगच्छन्तीति नैश्चयिक उच्यते, सामयिकत्वादेव चासौ न विशेषविषयः, विशेषज्ञानस्यासंख्येयसामयिकत्वात्, विशेषविषयकत्वे तस्याभ्युपगम्यमाने च निश्चयरूपत्वापत्त्या मतिमात्रस्यापायरूपत्वं स्यात् , निश्चयस्यापायत्वादित्यभिप्रायेण नैश्चयिकापायत्वं मूलोक्तावग्रहस्योक्तम् , छद्मस्थव्यवहारिभिस्तस्य व्यवहियमाणत्वात् व्यावहारिकोऽर्थावग्रह उपचरित इति भावः ॥