________________
: ३४४: तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे नात्मिका सा धारणाऽनुवर्तत इति प्राप्तं, तथा च सति यावदेकपदार्थसंस्काररूपं प्रत्यक्षं पुरुषे भवेत्तावदपरपदार्थसंवेदनमेव नोदीयात , क्षायोपशमिकोपयोगानां युगपद्भावविरोधात् तस्मादात्मशक्तिविशेषस्यैव साक्षात्स्मृतिहेतुत्वं न तूपयोगरूपायाः ज्ञानरूपाया वा धारणायाः । न च स्मरणजनने नास्त्येवाऽऽत्मनश्शक्तिविशेष इति वाच्यम् , 5 सर्वत्र शक्तिविलोपप्रसङ्गात् । चिरन्तनातीतपर्यायविशेषस्यैव कस्यचित्कार्योत्पत्तौ सर्वत्र
कारणत्वेन कल्पयितुं शक्यत्वात् । पारम्पर्येण तादृशधारणाया हेतुत्वोक्तौ तु नास्माकं विरोध इति ॥ अव्यवहितस्मृतिहेतुश्चेति, स्मृति प्रति साक्षात्कारणमित्यर्थः । न धारणेति, उपयोगरूपा ज्ञानरूपा वा धारणा न साक्षाद्धेतुरिति भावः । परम्परया कारणत्वाङ्गीकारे
सम्मतिमाह परम्परयेति ॥ 10. ननु मतिज्ञानस्य प्रमाणत्वादनिर्णयात्मकावग्रहेहयोः कथं यथार्थनिर्णयात्मकप्रमाणत्वमित्याशङ्कायामाह
एषाश्च द्रव्यार्थिकनयापेक्षयैक्यं,पर्यायार्थिकनयापेक्षया च भिन्नत्वम् ।।
एषाश्चेति । मतिज्ञानप्रभेदानामवग्रहादीनामित्यर्थः । द्रव्यार्थिकनयापेक्षयेति, एकजीवद्रव्यतादात्म्येनेत्यर्थः । पर्यायार्थिकनयापेक्षयेति । अपूर्वापूर्वस्य वस्तुपर्यायस्य प्रकाशक15 त्वादसंकीर्णस्वभावतयानुभूयमानत्वात्क्रमभावित्वाचेति भावः, दृश्यते हि कदाचिद्दर्शनमात्रं
कदाचिद्दर्शनावग्रहौ, कदाचिद्दर्शनावग्रहेहाः, कदाचिद्दर्शनावग्रहहापायाः, कदाचिच्च दर्शनावग्रहेहापायधारणाः प्रोक्तक्रमेणैवोत्पद्यमाना इति, तस्मादसंकीर्णतयाऽनुभूयमानत्वेन भेदेऽपि एकजीवद्रव्यतादात्म्येनाभेदान्न प्रमाणत्वव्याघात इति भावः ॥
ननु किं दर्शनादीनामयमेवोत्पत्तिक्रमः किं वा प्रकारान्तरेणापीत्याशङ्कायामाह20 तथा चायं क्रमः, इन्द्रियार्थयोर्योग्यताख्ये सम्बन्धे सति सन्मानं
दर्शनाख्यं प्रथमतस्समुन्मीलति, इदं किश्चिदिति । ततः केनचिजात्यादिनाऽवग्रहोऽयं मनुष्य इति ततोऽनिर्धारितरूपेण संशयोऽयं पौरस्त्यो वा पाश्चात्यो वेति । ततो नियताकारेण सम्भावनात्मिकहाऽनेन पाश्चा
त्येन भवितव्यमिति । अनन्तरमीहिताकारेण निर्णयात्मकोऽपायोऽयं 25 पाश्चात्य एवेति । ततः कालान्तरस्मृतिहेतुत्वेन धारणोदेतीति ॥
१. एवं व्यजनार्थावग्रहभेदन द्विरूपोऽप्यवग्रहोऽवग्रहसामान्यादेकरूपस्तथाऽविच्युतिवासनास्मृतिभेदेन त्रिविधाऽपि धारणा धारणात्वेनै कविधेति न मतिज्ञानभेदाधिक्यशङ्केत्यपि बोध्यम् ॥