________________
मतान्तरम् ] न्यायप्रकाशसमलङ्कते
: ३४३ : विकल्परूपापि सा न संभवत्येतावन्तं कालं तद्वस्तु विकल्पायोगादित्याशंकायामाहेयश्चेति वासनात्मिका धारणा चेत्यर्थः । संख्येयवर्षायुषां संख्येयकालवर्तिनी, असंख्येयवर्षायुषामसंख्येयकालवर्तिनीत्यर्थः ज्ञानरूपेति, तथा चैषा वासना स्मृतिविज्ञानावरणक्षयोपशमरूपा स्मृतिविज्ञानजननशक्तिविशेषरूपा वेष्यते, सा यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिरूपज्ञानकार्यत्वादुत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्चो- 5 पचारतो ज्ञानरूपताभ्युपगम्यत इति भावः । यच्चोक्तमविच्युतिस्मरणयोर्गृहीतग्राहित्वमिति तदपि स्पष्टस्पष्टतरस्पष्टतमरूपविभिन्नधर्मकवासनाजनकत्वेनाविच्युतेः पूर्वोत्तरदर्शनद्वयानधिगतवस्त्वेकत्वग्राहित्वाच्च स्मृतेर्विशेषग्राहित्वेन प्रमाणत्वमक्षतमेवेति । अथ प्रसङ्गतोऽवग्रहादीनां कालमानमुच्यतेऽवग्रहादयस्त्विति । आदिना ईहापायाविच्युतिस्मृतीनां ग्रहणमवग्रहपदेन व्यावहारिकावग्रहस्य ग्रहणम् । व्यञ्जनावग्रहस्य कालो जघन्यत आवलिकाया 10 असंख्येयभागः प्रकर्षेण संख्येयावलिका आनपानपृथक्त्वकालमानाः । नैश्चयिकार्थावग्रहस्य समयो वासनायास्तु संख्येयोऽसंख्येयो वा काल इति मूल एवोक्तः ॥
अत्र केचिद्वदन्ति सांव्यवहारिकप्रत्यक्षभेदात्मकधारणा दृढतमावस्थापनोपयोगापरपर्यायाविच्युत्यात्मकापायरूपैव, न चासनारूपा, क्षयोपशमविशेषरूपायाश्शक्तिविशेषरूपाया वा तस्या अज्ञानरूपत्वेन धारणात्वासम्भवात् , नापि स्मृतिरूपा, तथा सति तादृशधारणाया- 15 स्सांव्यवहारिकप्रत्यक्षप्रभेदत्वासम्भवादिति तन्मतं केचिन्मुखेन प्रतिक्षिपति
केचित्तु आत्मशक्तिविशेष एव संस्कारशब्दवाच्योऽव्यवहितस्मृतिहेतुश्च, न धारणा, क्षायोपशमिकोपयोगानां युगपद्भावविरोधात् । परम्परया तस्यास्तद्धेतुत्वे न किञ्चिद्दषणमिति प्राहुः॥
केचित्चिति । श्रीमद्वादिदेवसूरिपादा इत्यर्थः । एषामयम्भावो विवक्षितवस्तुविषय- 20 कोपयोगरूपधारणाया यदि साक्षात्स्मृतिहेतुत्वं तदा स्मृतिकालं यावदनुवर्तनं स्यात् न चैतत्सम्भवति, छाद्मस्थिकोपयोगानामान्तमौहूर्तिकत्वेन तावदनुवृत्त्यसम्भवात् । नवा तावत्कालावस्थानमनुभूयते, अद्यानुभूवस्य परेद्युस्स्मरणीयस्य च घटादेरान्तरालिकानेकसुप्तमत्ताद्यवस्थासु प्रतीत्यभावात् , स्वरूपतो ज्ञानरूपस्संस्कारो धारणाभिधान इत्यपि न चतुरनम्, तथा सति यस्य पदार्थस्य कालान्तरे स्मृतिस्तावत्कालं प्रत्यक्ष ज्ञा- 25
१. प्रथमापायेनान्यकालविशिष्टं द्वितीयापायेनेतरकालविशिष्टं वस्तु गृह्यत इति न गृहीतग्राहित्वं, स्मृत्यापि कालभेदेन भिन्नस्यापि सत्त्वप्रमेयत्वसंस्थानादिभिरेकत्वेन तद्विशिष्टं वस्तु गृह्यत इति न गृहीतग्राहित्वं तस्या इतिभावः ॥