________________
: ३४२ :
तत्त्वन्यायविभाकरे
[ द्वितीय किरण
धर्माः शिरः कण्डूयनादयो न दृश्यन्ते, स्थाणुधर्माश्च वल्ल्युत्सर्पणादयो दृश्यन्तेऽ स्थाणुरेवायमिति भवतोऽपायस्य निश्वयैकरूपेण भेदाभावात् ॥
अथ धारणां निरूपयति
5
स्मरणोत्पत्त्यनुकूलोsपायो धारणा । इयञ्च संख्येया संख्येयकालवर्त्तिनी ज्ञानरूपा संस्कारशब्दवाच्या च । अवग्रहादयस्त्वान्तमौहूर्त्तिकाः ॥
स्मरणेति । स्मरणमतीतपदार्थचिन्तनरूपा स्मृतिः, तदुत्पत्त्यनुकूलस्तस्याः परिणामिकारणं संस्कारवासनापरपर्यायो ज्ञानात्मा अपाय एव धारणेत्यर्थः । नहि संस्कारादयो ऽज्ञानरूपाः, ज्ञानात्मक स्मृतिजनकत्वानुपपत्तेः, आत्मधर्मत्वासम्भवाञ्च चेतनधर्मस्या चेतन10 त्वाभावात् । यद्यपि धारणाऽविच्युतिवासनास्मृतिभेदेन त्रिविधा, अपायनिश्चितार्थविषयकोपयोग सातत्यमविच्युतिः । अपायानन्तरमर्थोपयोगस्यावरणभूतकर्मणः पुनः प्राप्तस्य कालान्तरे क्षयोपशमेन युक्तो जीवो यदा पुनरप्यर्थोपयोगं स्मृतिरूपं प्राप्नोति सा चेयं तदावरणक्षयोपशमरूपाऽथवा तद्विज्ञानजननशक्तिरूपा वासना प्रोच्यते, कालान्तरे वासनावशादिन्द्रियैरुपलब्धस्य तैरनुपलब्धस्य वा मनसि या स्मृतिराविर्भवति स तृतीयभेदः, एवं स्मृतिहेतोरेव धारणात्ववर्णनमनुचितं तथाप्यविच्युतिरप्राय एवान्तर्भूता दीर्घदीर्घ15 तरादिरूपापायस्यैवाविच्युतिरूपत्वात् तस्या अपि स्मृतिहेतुत्वात् स्मरणोत्पत्त्यनुकूलत्वे सत्यपायत्वेन धारणयैव संस्कारवत् सङ्गृहीतत्वाद्वा न दोषः । न ह्यविच्युत्यनात्मकादपायात्स्मरणं भवितुमर्हति, गच्छत्तॄणस्पर्शप्रायाणामपायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । स्मृतिरपि धारणैव परन्तु तस्याः परोक्षप्रमाणभेदत्वादिह न सङ्गृहीता । ननु अविच्युतिस्मृतिरूपौ ज्ञानविशेषौ गृहीतग्राहित्वान्न प्रेमाणभूतौ वासना तु किमात्मिका, न 20 तावत्स्मृतिज्ञानावरणक्षयोपशमस्तज्ज्ञानजननशक्तिविशेषो वा सा, ज्ञानरूपत्वाभावाज्ज्ञानभेदानामेवेह विचार्यमाणत्वात् । संख्येयमसंख्येयं वा कालं वासनाया इष्टत्वेन तत्तद्वस्तु
१. व्यतिरेकादन्वयादुभयस्माद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायस्स सर्वोऽप्यपायः, नतु सद्भूतार्थविशेषावधारणं धारणा, तथाऽभ्युपगम्यमाने आभिनिबोधिकज्ञानस्य पञ्चभेदत्वापत्तेः, व्यतिरेकस्यापायत्वेनान्वयस्य धारणात्वेनावग्रहेहापायधारणायाश्चतुर्विधत्वात् स्मृतेश्च पञ्चभेदत्वात् अविच्युतेरपाये वासनायास्स्मृतावन्तर्गतत्वात् । अस्मन्मते तु न तथा व्यतिरेकस्यान्वयस्यापि अपायत्वेन स्मृतेर्धारणान्तर्गतत्वादिति ॥ २. अपायस्य हि वस्तुनिश्चयः फलं तच्च प्रथमप्रवृत्तापायेनैव निष्पन्नमिति द्वितीयाद्यपायस्य निष्फलत्वं निष्पन्नं फलं प्रति पुनर्निष्पादकत्वाभ्युपगमे निष्पन्नस्यापि घटस्य पुनर्निष्पादनाय कुलालप्रवृत्तिः स्यात् स्मृतिरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्त्तते इति सापि गृहीतस्यैव ग्राहिका, पूर्वोत्तररूपकालभेदेन च वस्तुनो भेदाच्चैकत्वासिद्धया स्मृतेः तस्याप्यग्राहकत्वेनाविच्युतिस्मृत्योर्न प्रमाणत्वमिति भावः ॥