________________
अपायनिरूपणम् ] न्यायप्रकाशसमलङ्कृते
:३४१ : रेकधर्मनिराकरणप्रवणत्वे सत्यन्वयधर्मघटनप्रवृत्तिरहितत्वात् किन्तु संशय ईहायां कारणं भवति व्यतिरेकधर्मान्वयधर्मोपस्थापकतयेत्याशयेनाहेयश्चेति, ईहा चेत्यर्थः । संशयोत्तरकालं विशेषोपलिप्सायां प्रवर्तनरूपेहा भवति, तत ईहा संशयभिन्नेति भावः । ईहाया दृष्टान्तमाह यथेति । नैश्चयिकाव्यक्तवस्तुमात्रग्रहणात्मकार्थावग्रहोत्तरं किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वेति संशय्य शब्देनानेन भवितव्यं इत्येवं भवितव्यताप्रत्ययाभिमुखी 5 ईहापि भाव्या ॥
अपायं निरूपयति
ईहाविषयविशेषधर्मवत्तानिर्णयोऽपायः । यथाऽयं पाश्चात्य एवेति । अयमेव प्रत्यक्षप्रमाणमुच्यते, नत्ववग्रहेहे तयोरनिर्णयरूपत्वात् ॥
ईहेति । ईहाविषयीभूतपाश्चात्यत्वादेर्धर्मस्य निर्णयो याथात्म्येन निश्चयः पाश्चात्य 10 एवायमिति सोऽपाय इत्यर्थः । दृष्टान्तमाह यथेति पाश्चात्य एवेति, एव शब्देन पौरस्त्यत्वादिधर्मनिषेधः, अन्यतरवचने अन्यतरनिषेधस्य सामर्थ्यलब्धत्वात् । यदा तु नायं पौरस्त्य इति करोत्यपायं तदापि सामर्थ्यात्पाश्चात्य एवेति लभ्यते तदीयविशेषलिङ्गात् । नैश्चयिकापायस्तु शब्द एवायमित्येवंरूपः । ननु स्वस्वविषये सम्यगर्थनिर्णयात्मकत्वादवग्रहेहयोरपायात्सर्वथाभिन्नत्वाभावाच्च प्रमाणात्मकत्वेऽपि उत्तरोत्तरापेक्षयाऽवग्रहस्य सामा- 15 न्यमात्रविषयकत्वेन पर्यालोचनारूपत्वाचेहाया हेयोपादेयवस्तुतिरस्कारस्वीकारयोस्स्पष्टतया सामर्थ्यविरहात्तादृशस्य निश्चयात्मकस्यापायस्यैव तादृशं प्रमाणत्वमित्याशयेनाहायमेवेति अपाय एवेत्यर्थः । एवशब्दव्यवच्छेद्यमाह नत्विति, प्रमाणमुच्यत इत्यनेन सम्बन्धः, नात्र प्रमाणस्य सर्वथा निषेधो भाव्यः । अन्यथाऽपायस्यावग्रहादिपर्यायत्वेन तस्यापि प्रमाणत्वमनुपपन्नं स्यादत एव चावग्रहेहयोः सांव्यवहारिकप्रत्यक्षप्रमाणभेदत्वं किन्तु 20 अवग्रहेहे व्यापारांशी, जिज्ञासानिवृत्त्यनन्तरकालीनापायस्तु फलांश इत्यस्य हेयहानोपादेयोपादानक्षमत्वादित्यभिप्रायेणैवास्य प्रमाणत्वमुक्तमिति ध्येयम् ॥ अंसद्भूतार्थविशेषव्यतिरेकावधारणमेव नापायः, क्वचित्तदन्यव्यतिरेकपरामर्शात् यथा नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्तेऽतस्स्थाणुरेवायमिति, कचिदन्वयधर्मसमनुगमात् , यथा स्थागुरेवायं वल्ल्युत्सर्पणपक्षिनिलयनादिधर्माणामिहान्वयादिति, कचिच्चोभाभ्यामपि, यथा पुरु- 25
१. तत्र विद्यमानस्थाण्वादिभिन्नपुरुषवृत्तिशिरःकण्डूयनादिधर्मविशेषाणां पुरोवत्तिनि प्रतिषेधमात्रमेवापायो न तु सद्भतार्थविशेषावधारणरूपोऽपि, तस्य धारणारूपत्वादिति पूर्वपक्षस्य भावः ॥