________________
:३४०: तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे __योग्यतैवान विषयेण चक्षुर्मनसोस्सम्बन्धः । सा चानतिदूरासन्नव्यवहितदेशाद्यवस्थानरूपा । इतरेन्द्रियेषु संश्लेषः॥
योग्यतैवेति । अत्रास्मिन् लक्षणे विषयेण रूपादिना चक्षुर्मनसोस्सम्बन्धो योग्यतैव इत्यन्वयः । एवपदेन संश्लेषस्य व्यवच्छेदः । तेन तयोर्विषयेण संश्लेषलक्षणसम्बन्धाभावेऽ 5 पि न क्षतिः, अभ्युपगन्तव्या परैरपि योग्यता, इतस्था स्फटिकान्तरितस्येव कलुषितजलान्तरितस्यापि भावस्योपलम्भप्रसङ्गस्यात् जलेन विध्वस्तं लोचनतेज इति न साम्प्रतम् , स्वच्छजलान्तरितस्याप्यग्रहणप्रसङ्गात् । का सा योग्यतेत्यत्राह सा चेति, निरुक्तप्रमाणादतिदूरवर्त्तिनोऽत्यासन्नस्य कुड्यादिव्यवहितस्य च भावस्याग्रहणादनतिदूरासन्नव्यवहितदेशाद्यव
स्थानरूपा योग्यतेत्यर्थः । केषाश्चिदतिशयज्ञानभृतामस्मदाद्यगोचरविप्रकृष्टस्वविषयस्य स्व. 10 च्छस्फटिकजलादिव्यवहितस्य च चक्षुषा परिच्छेदादीदृशी योग्यता न सार्वत्रिकीत्यत
आदिपदमुपात्तं तेन तादृशतदावरणक्षयोपशमविशेष एव योग्यतेति भावः । श्रोत्रादिस्थले तु तत्तदावरणक्षयोपशमविशिष्टस्संश्लेषोऽपीत्याहेतरेन्द्रियेष्विति, अन्यथा स्पृष्टत्वबद्धत्वासंभवेन तत्तद्विषयग्रहणं न स्यादेवेति भावः ।
अथेहां लक्षयति15 अवगृहीतधर्मिण्यवगृहीतसामान्यावान्तरविशेषस्य पर्यालोचनमीहा। . इयश्चावगृहीतसामान्यधर्मावान्तरधर्मविषयसंशयावायते । यथाऽयं मनुष्यः पौरस्त्यो वा पाश्चात्यो वेति संशयाल्लक्षणविशेषेण पौरस्त्येनानेन भवितव्यमिति ॥
अवगृहीतेति । अवगृहीतधर्मावच्छिन्नविशेष्यतानिरूपिततादृशधर्मावान्तरधर्मनिष्ठविल20 क्षणप्रकारतानिरूपकज्ञानत्वमीहाया लक्षणम् । विलक्षणप्रकारता च पौरस्त्येनानेन भवितव्यमित्याकारकप्रतीतिसिद्धा बोध्या, उत्प्रेक्षात्मकज्ञानीयप्रकारतेति यावत् । अवग्रहादुत्तरकालमपायात्पूर्वकालं सद्भूतार्थविशेषोपादानाभिमुखा असद्भूतार्थविशेषपरित्यागाभिमुखाः प्रायः पौरस्त्यधर्मा दृश्यन्ते नतु पाश्चात्यास्ततोऽनेन पौरस्त्येन भवितव्यमित्येवं ज्ञानं, अत एवास्यायं पाश्चात्यो वा पौरस्त्यो वेति सर्वात्मना सुप्तमिव स्थितात्संशयाद्भेदः, तस्य व्यति
१. उत्प्रेक्षा च " अरण्यमेतत्सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं मृडानीपतितुल्यनाम्ना ॥” इत्यादिरूपं ज्ञानम् ॥ २. उपलक्षणमिदं संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाज्ञानात्मकत्वान्मतिभेदत्वेनेहाया वस्तुतो ज्ञानस्वभावत्वात् , ज्ञानाज्ञानयोश्च परस्परपरिहारेण वृत्तेर्ना ज्ञानरूपसंशयस्य ज्ञानांशात्मकेहारूपत्वमिति बोध्यम् ॥