________________
आलोचनम् ] न्यायप्रकार
:३३६ : नेन सम्बधेनावग्रहणं व्यज्यमानस्य शब्दादिरूपार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः अथवा व्यञ्जनानां शब्दादिरूपतया परिणतद्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहोऽ व्यक्तपरिच्छेदो व्यञ्जनाऽवग्रहः, व्यञ्जनेनोपकरणेन्द्रियेण स्वसम्बद्धस्यार्थस्य शब्दादेरवग्रहणमव्यक्तपरिच्छेदो व्यञ्जनावग्रह इति, अयश्च सम्बन्धानन्तरं प्रथमसमयादारभ्यार्थावग्रहात्प्राक् सुप्तमत्तमूञ्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषयोऽव्यक्तो ज्ञान. 5 रूपोऽन्तर्मुहूर्तप्रमाणः । अव्यक्तत्वादेव च न संवेद्यते संवेदनाभावात्तस्याभावाङ्गीकारे तु द्वितीयादिसमयेऽपि तस्याभावप्रसक्त्या चरमसमयेऽर्थावग्रहो न स्यादेव, अर्थावग्रहस्तु स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितस्सामान्यार्थग्रहणरूपः, तथा चोक्तदृष्टान्तेऽमनुष्यव्यावृत्तिरूपविशेषप्रतिभासनेऽपि नैश्चयिकव्यावहारिकरूपेणावग्रहस्य द्वैविध्यादत्र व्यावहारिकावग्रहो निदर्शितस्तदुत्तरमपीहादीनां प्रवृत्तेः । अन्यथा तेषां प्रवृत्तिर्न स्यादेवेति भावः॥ 10
नैश्चयिकावग्रहं विशेषमात्रानवगाहित्वेन दर्शनापरपर्यायं स्वरूपयतिसत्तामात्रावगाहिज्ञानं दर्शनमालोचनम् । यथेदं किञ्चिदिति ॥
सत्तामात्रेति । मात्रपदेन नामजात्यादिव्युदासो दर्शनस्य नामान्तरमाहालोचनमिति । एतस्य दृष्टान्तमाह यथेति । इतीति, एतादृशशब्दप्रयोगाभिव्यङ्गयश्शब्दप्रयोगरहितो ज्ञानविशेष इत्यर्थः । अन्यथा शब्दोल्लेखित्व आन्तौहूर्तिकत्वापत्त्याऽर्थावग्रहस्यैकसामयिकत्व- 15 सिद्धान्तव्याकोपस्स्यादिति भावः । इदश्चोदाहरणं नैश्चयिकाव्यक्ताव्यावृत्तवस्तुसामान्यग्राहि । तत ईहिते सति मनुष्योऽयमिति निश्चयात्मकोऽपायो भवति । ततोऽपि मनुष्योऽयं पाश्चात्यः पौरस्त्यो वेति संशयोत्तरं पाश्चात्येन भवितव्यमितीहोदयात्तदपेक्षया मनुष्योऽयमिति ज्ञानस्य व्यावहारिकावग्रहत्वं, एवमेव यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा समुदेति तावत्तत्तदपेक्षया पूर्वपूर्वस्य सामान्यविषयकतयाऽवग्रहरूपता, पूर्वपूर्वापेक्षया चोत्तरोत्तर- 20 निश्चयानां विशेषविषयकत्वेनापायरूपताऽवसेयेति ॥
ननु विषयेन्द्रियमनोऽभिसम्बन्धेत्यादिना यदवग्रहस्य लक्षणमुक्तं तच्चक्षुर्मनसोप्राप्यकारित्वेन तज्जन्यावग्रहेऽव्याप्तं सम्बन्धाभावादित्याशङ्कायामाह
१. यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात्तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टं, यथाऽर्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानात् ईहासद्भावादावग्रहो ज्ञानम् , ज्ञायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूंपादानात्तत एवार्थावग्रहज्ञानं तस्माद्यञ्जनावग्रहो ज्ञानमिति, अव्यक्तत्वञ्च तस्यैकतेजोऽवयवप्रकाशवत् स्वसंवेदनेनाप्यव्यज्यमानत्वादिति भावः ॥