________________
तत्त्वन्यायविभाकरे
[द्वितीयकिरणे .... इदमपीति, चक्षुरादिवन्मनोऽपीत्यर्थः । द्रव्यमनसः स्वरूपमाह मनस्त्वेनेति, मन. नयोग्यैर्मनोवर्गणाभ्यो गृहीतैरनन्तैः पुद्गलैनिवृत्तमित्यर्थः । आत्मप्रदेशव्यापीति, स्वस्वकायपरिमितमित्यर्थः, न त्वणुरूपं युगपज्ज्ञानानां युगपदुपयोगाभावादेवानुत्पत्तेरिति भावः ।
आहङ्कारिकत्वनित्यत्ववारणायाह पौद्गलिकमिति पुद्गलसमूहात्मकमित्ययः। भावमन आह 5 तदावरणेति मनोजन्यज्ञानावरणेत्यर्थः । अर्थग्रहणोन्मुख इति, तत्तदर्थपरिच्छेदोन्मुख इत्यर्थः, आत्मव्यापारविशेष इति, चित्तचेतनायोगाध्यवसानस्वान्तमनस्कारादिशब्दवाच्य आत्मनः परिणामविशेष इत्यर्थ इदमपि ज्ञानरूपं भावमनस्स्वदेहपरिमाणमेव ।। एवं सांव्यवहारिकप्रत्यक्षलक्षणं सविस्तरं विचार्य सम्प्रति तद्विभजते
सांव्यवहारिकञ्चावग्रहेहापायधारणाभेदेन चतुर्विधम् ॥ 10 सांव्यवहारिकश्चेति । तत्तदिन्द्रियनिमित्तं चतुर्विधं यथा चक्षुरवग्रहश्चक्षुरीहा
चक्षुरपायश्चक्षुर्धारणा, रसनावग्रहो रसनेहा रसनापायो रसनाधारणेत्येवं सर्वेन्द्रियमादाय मनोऽप्यादाय चातुर्विध्यं सांव्यवहारिकप्रत्यक्षस्य भाव्यम् ।।
अथावग्रहलक्षणमाख्याति--
विषयेन्द्रियमनोऽभिसम्बन्धजन्यदर्शनजनितं सत्तावान्तरसामान्य15 वद्वस्तुविषयकं ज्ञानमवग्रहः । यथाऽयं मनुष्य इत्यादि ॥
विषयेन्द्रियेति । द्रव्यपर्यायस्वरूपोऽर्थो विषयः, इन्द्रियं चक्षुरादि मनः प्रसिद्धं, तेषामभितः पूर्णतया भ्रान्ताद्यनिमित्तकत्वेन यस्सम्बन्धो योग्यस्थानावस्थितिरूपस्तेन जन्यं यदर्शनं सन्मात्रविषयकनिर्विशेषकबोधस्तेन जनितं यत्सत्तावान्तरसामान्यव
द्वस्तुविषयकं ज्ञानं सत्त्वव्याप्यमनुष्यत्वादिप्रकारकेदत्वाद्यवच्छिन्नविशेष्यकज्ञानं तद20 वग्रहपदवाच्यमित्यर्थः । निदर्शनमाह यथेति । अत्रावग्रहो यद्यपि व्यञ्जनार्थाव
ग्रहभेदेन द्विविधः, तत्रान्तनिर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुश्शक्तिविशेष उपकरणेन्द्रियरूपः, शब्दादिरूपेण परिणतद्रव्यसमूहः, उपकरणेन्द्रियपरिणतशब्दादिद्रव्ययोस्सम्बन्धश्च व्यञ्जकत्वाद्व्यज्यमानत्वाच्चोपलक्षणेन त्रितयमपि व्यञ्जनमुच्यते । व्यञ्ज
१. इन्द्रियमनोनिमित्तकमतिज्ञानस्य श्रुतनिश्रिताश्रतनिश्रितभेदभिन्नस्य भेदा इमे, यद्यपि श्रुतनिधितस्यावग्रहादयश्चतुर्विधाः, अश्रुतनिश्रितस्यौत्पत्तिक्यादयो भेदा भवन्ति तथापि औत्पत्तिक्यादिष्वप्यवग्रहादयो विद्यन्त एव । परन्तु श्रतनिश्रितावग्रहादयो व्यवहारकाले श्रुतानपेक्षया प्रवर्तन्ते पूर्व श्रुतपरिकार्मतमतिभवेत् औत्पत्तिक्यादिषु त्वीहाद्यभिलापः श्रुतानुसरणमन्तरेण भवति तथाविधकर्मक्षयोपशमादिति बोध्यम् ॥