________________
मंतिज्ञानभेदाः ]
न्यायप्रकाशसमलङ्कृते । वाश्रयणीयम् , प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रबोधाभावेन श्रुतनिश्रितज्ञानासम्भवात् । धारणायाः श्रुतज्ञानहेतुत्व एव च मतिश्रुतयोर्लब्धियोगपद्येऽप्युपयोगक्रमस्सङ्गच्छते प्रागुपलब्धार्थस्य चोपलम्भे धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयाच्छ्रतनिश्रितत्वमावश्यकम् , धारणादिरहितानामेकेन्द्रियादीनां त्वाहारादिसंज्ञान्यथानुपपत्त्याऽन्तर्जल्पाकारं विवक्षितार्थवाचकं शब्दसंस्पृष्टार्थज्ञानरूपं श्रुतज्ञानं क्षयोपशममात्रजनितं जात्यन्तरमेवेति संक्षेपः ॥ 5
अथ मतिज्ञानस्य यावत्प्रकारान् दर्शयति
इदश्च प्रत्येकेन्द्रियैर्मनसा चावग्रहादिक्रमेण जायमानत्वाच्चतुर्विशतिविधम् । रसनादीन्द्रियैश्चतुभिरेव चतुर्विधा व्यञ्जनावग्रहा भवन्ति, न चक्षुर्मनोभ्यां, विषयेन्द्रियसंश्लेषाभावात् । स्पर्शनादीन्द्रियाणामुपकरणात्मकानां स्पर्शाद्याकारेण परिणतपुद्गलानाञ्च यः परस्परं संश्लेषस्सा व्य- 10 अनेत्युच्यते । सोऽयं चतुर्विधो व्यञ्जनावग्रह इति मिलित्वाष्टाविंशतिविधं मतिज्ञानम् । श्रुतज्ञाने तु नावग्रहादयो भवन्ति ॥
इदश्चेति, मतिज्ञानश्चेत्यर्थः । प्रत्येकेन्द्रियैः-प्रत्येकं चक्षुरसनघ्राणत्वश्रोत्रेन्द्रियैः, अवग्रहादिक्रमेणेति, चक्षुरवग्रहश्चक्षुरीहा चक्षुरपायश्चक्षुर्धारणेत्येवंक्रमेणेत्यर्थः । तत्रावग्रहस्य व्यञ्जनार्थावग्रहरूपेण द्वैविध्यात्पूर्वोक्तावग्रहस्यार्थावग्रहरूपत्वेन व्यञ्जनावग्रहं वक्ति रसना. 15 दीति, आदिना घ्राणत्वक्श्रोत्राणां ग्रहणम् । चतुर्भिरेवेत्यत्रैवशब्दध्यवच्छेद्यमाह नेति । तत्र निबन्धनमाह विषयेति । निश्चयतः कार्योत्पत्तावविकलकारणस्यैव व्याप्यत्वेन ज्ञाने उपयोगे. न्द्रियस्यैवाविकलकारणत्वेन व्यञ्जनावग्रहकालेऽव्यक्ततया तत्सत्त्वात्तदा ज्ञानमवश्यं भव. त्येवेति व्यञ्जनावग्रहोऽयं ज्ञानात्मा कारणांशो बोध्यः । व्यञ्जनां स्वरूपयति स्पर्शनादी. न्द्रियाणामिति, आदिना श्रोत्रघ्राणरसनानां ग्रहणम् । ननु व्यञ्जनावग्रहः प्राप्यकारिणामे- 20 बेन्द्रियाणां न त्वप्राप्यकारिणां तत्र कः कारणांशः, यद्यर्थावग्रहस्तर्हि स एव व्यञ्जनावग्रहस्थलेऽप्यस्तु इति चेन्न तत्रापि प्रागवग्रहाल्लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणामस्यैव कारणांशतयाऽभ्युपगमात् । निगमयति मतेर्भेदं सोऽयमिति । अष्टाविंशतिविधमिति, उपलक्षणमेतत् , तेन स्वस्वप्रतिपक्षसहितैर्बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवैः प्रत्येकं भिन्नानामेषां षट्त्रिंशदधिकत्रिशतविधत्वेऽपि न क्षतिः, अत्र सर्वत्र क्षयोपशमस्योत्कर्षापकर्षों निमित्ते भवत 25 इति । किं श्रुतज्ञानेऽप्यवग्रहादिभेदोऽस्तीत्यत्राह श्रुतज्ञाने विति । तुर्भिन्नार्थोपक्रमे, मतिज्ञा. नाभावे श्रुतज्ञानाभावाद्विशेषविषये तस्मिन्नवग्रहासम्भवेनेहादीनामप्यसम्भवादिति भावः ।।