SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ : ३३६ : तस्वन्याय विभाकरे [ द्वितीयकिरणे श्रोत्रेन्द्रियस्यापि तथाविधमद्भुततरं बलं न विद्यते येन परतोऽप्यागतान् शब्दान् शृणुयादिति भावः । ननु श्रोत्रस्य प्राप्तार्थग्राहित्वं न युज्यते, स्वदेशाद्भिन्नदेशस्थस्यापि शब्दस्य ग्रहणानुभवात्, नहि कश्चिच्छन्दः श्रोत्रेन्द्रिये प्रविशन्नुपलभ्यते, नवा श्रोत्रेन्द्रियं शब्ददेशे गच्छत्, समीक्ष्यते, दूरे एष कस्यापि शब्दः श्रूयते इति जनोक्तिरपि श्रूयते इति चेन्मैवम्, श्रोत्रं हि शब्दः 5 प्राप्नोति न तु शब्दं श्रोत्रमबाह्यकरणत्वादात्मनः । ते च शब्दा गत्यादिक्रियावन्तः पुद्गलमयाः, वायुनोह्यमानत्वात् क्रियावन्तो धूम इत्र, विशेषेण द्वारानुविधानात्तोयवत्, पर्वतनितम्बादिषु प्रतिघाताद्वायुवदिति, श्रोत्रमध्यागतं शब्दं गृह्णाति, उपघातानुग्रहोपलब्धेः, भेर्यादिमहाशब्दप्रवेशे हि श्रोत्रस्य बाधिर्यरूप उपघातो दृश्यते, कोमलशब्दप्रवेशेत्वनुग्रहः, श्रोत्रेण सन्निकृष्टस्यापि शब्दस्य ग्रहणे तत्र दूरादिव्यवहारस्य दूरादिदेशादागतत्वेनोपपद्यमानत्वं दृश्यते 10 हि गन्धस्य प्राणेन्द्रियेण सन्निकृष्टस्यापि ग्रहणे दूरादिदेशादागतत्वेन दूरे बकुलपरिमल इत्यादिव्यवहारः । अव्यवहितदेशोत्पन्ने शब्दे देशश्चाक्षुषप्रत्यक्षेण लक्ष्यते व्यवहितदेशस मुद्भवे च तस्मिन् देशप्रतिपत्तिरानुमानिकीति । अत्रेदम्बोध्यं सर्वस्तोकप्रदेशावगाढं चक्षुरिन्द्रियम् ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्येयगुणं अतिप्रभूतेषु प्रदेशेषु तस्यावगाहनभावात् । ततोऽपि घ्राणेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाह15 नोपपत्तेः । ततोऽपि रसनेन्द्रियं संख्येयगुणं ततोऽपि स्पर्शनेन्द्रियमवगाहनार्थतयाऽसंख्येयगुणम् । एवमेव प्रदेशातयापि । सर्वाणीन्द्रियाणि च वर्त्तमानार्थग्राहीणीति ॥ अथ शब्दभेदानाह सचितेति, जीवेन मुखद्वारा भाषमाणो यश्शब्दस्स सचित्तः, परस्परं पाषाणद्वयपरिस्फालनप्रभवोऽचित्तः, आत्मप्रयत्नतो वाद्यमानेषु वादित्रादिषु समुन्मिषन् शब्दो मिश्रः ॥ अथ मनो लक्षयति मतिश्रुतविषयीभूतार्थज्ञानसाधनमनिन्द्रियं मनः, अप्राप्यप्रकाश कारि ॥ मतीति । मतेश्श्रुतस्य वा विषयी भूतोऽर्थस्तद्विषयक ज्ञानसाधनत्वे सत्यनिन्द्रियत्वं मनसो लक्षणमित्यर्थः। मतिश्रुतान्यतरज्ञानसाधनत्वे सत्यनिन्द्रियत्वमिति यावत् । औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं भवति, ईषदूनमिन्द्रियमनिन्द्रियं मनस्तत्त्वं 25 तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् अर्थपरिछेदकत्व लक्षणेन्द्रिय सादृश्याच्च । अर्थावग्रहात् 20 १. ननु शब्दपरमाणव उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृहानाः श्रोत्रेन्द्रियदेशं प्राप्नुवन्ति प्राप्तां तान् श्रोत्रेन्द्रियं गृह्णाति नाप्राप्तानिति यद्युच्यते तर्हि शब्दे दूरासन्नादिभेदप्रतीतिर्न स्यात् प्राप्तो हि विषयः परिच्छिद्यमानस्सर्वोऽपि सन्निहित एव, प्रतीयते च दूरे शब्दोऽन्तिके शब्द इति तत्र दूरासन्नादिभेद इत्याशङ्कायामाह श्रोत्रेण सन्निकृष्टस्यापीति ।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy