________________
श्रीन्द्रियम् ]
न्यायप्रकाश समलङ्कृते
: ३३५ :
नहि सा गन्धज्ञानमात्रेऽसाधारणं कारणं किन्तु एकाधिकविषयकज्ञान एवेति । लक्षणं कृत्यच पूर्ववत् । इदमपि रसनवज्जघन्यतोऽङ्गुला संख्येयभाग प्रमितदेशादुत्कर्षेण नक्कयोजनादागतं स्वदेशं स्पृष्टं बद्धश्च गन्धं गृह्णातीत्याशयेनाह प्राप्यकारीति । गन्धं विभजते गन्धोऽ पीति । सौमुख्यकृत्सुरभिर्वैमुख्य कृहुरभिरिति ॥
स्पर्शनं लक्षयति
स्पर्शग्राहकमिन्द्रियं त्वक्, प्राप्यप्रकाशकारिणी । शीतोष्णस्निग्धरूक्षमृदुकर्कशगुरुलघुरूपेणाष्टविधस्स्पर्शः ॥
स्पर्शग्राहकमिति । लक्षणं कृत्यमूह्यम् । अस्येन्द्रियस्य निर्वृत्तेर्न बाह्याभ्यन्तरभेदो वर्त्तते । त्वगिन्द्रियमपि रसनादिवत्तावत्प्रमाणादागतं विषयं प्राप्य ज्ञानमुत्पादयतीत्याह प्राप्येति । स्पर्शं विभजते शीतेति ।
अथ श्रोत्रं लक्षयति
शब्दग्राहकमिन्द्रियं श्रोत्रम्, प्राप्यकारि । सचित्ताचित्तमिश्रभेदात्रिविधशब्दः ॥
-
5
१. ननु प्राणस्य प्राप्यकारित्वं न युज्यते, स्वदेशाद्भिन्नदेशस्थस्यापि स्वचिषयस्यैव गृह्णतोऽनुभवसिद्धस्वात् । कर्पूरकुंकुमकुसुमादीनां दूरस्थानामपि गन्धस्यानुभवादिति चेन्न, अन्यत आगत्य गन्धेन प्राणेन्द्रियस्य स्पर्शनात् वायुना हि प्रेरितस्स क्रिय: पुद्गलमयो गन्धो घ्राणेन्द्रियं स्पृशति, अन्यथा घ्राणेन्द्रियस्य तत्कृतानुग्रहोपघातौ न स्याताम् दृश्यते च कर्पूरादिगन्धप्रवेशे इन्द्रियानुग्रहः, अशुच्यादिगन्धप्रवेशे पूतिरोगार्शोव्याधिरूपो घ्राणस्योपघात इति, एवं श्रोत्रेऽपि भाव्यम् ॥
10
शब्देति । वाग्योगप्रयत्न निसृष्टोऽनन्तानन्तप्रादेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः पुद्गलद्रव्यसंघातविशेषजन्मा वा गर्जिता दिश्शब्दो ऽव सेयस्तद्विषयक ज्ञानजनकमिन्द्रियं श्रोत्रमित्यर्थः 15 लक्षणं कृत्यं प्राग्वदूह्यम् । शब्दद्रव्याणि घ्राणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यस्सूक्ष्माणि, बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च ततस्सूक्ष्मत्वादतिप्रभूतत्वात्तदाऽन्यद्रव्यवासकत्वाच्च आत्मप्रदेशैस्स्पृष्टमात्राण्यपि निर्वृत्तीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति । श्रोत्रेन्द्रियश्च घ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततस्स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभन्ते नास्पृष्टानि श्रोत्रेन्द्रियस्य प्राप्तविषयपरिच्छेदस्वभावत्वादित्या - 20 शयेनाह प्राप्यकारीति, स्पृष्टार्थग्राहीत्यर्थः । जघन्येनाङ्गुला संख्येयभागादागतं प्रकर्षेण द्वादशयोजनादागतं स्पृष्टं शब्दं गृह्णाति, नातः परत आगतं तस्य स्वभावतो मन्दपरिणामत्वात्,