________________
: ३३४:
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे
तर्हि निरंशताऽभ्युपगमव्याघातः, एकावयवावच्छेदेन वृत्तेः । किश्चैकदेशेनापि समवायस्य केन सम्बन्धेन वृत्तिता, न समवायेनाऽपसिद्धान्तात् । न स्वरूपेण, तस्य प्रतियोग्यनुयोगिभिन्नत्वाभावेन शून्यत्वात् समवायिनोरपि स्वरूपेणैव वृत्तिताप्रसङ्गात् , यदि स्वरूप
सम्बन्धस्य भेदस्तर्हि तस्यापि स्वरूपिषु वृत्तितायां सम्बन्धान्तरप्रसङ्गेनानवस्थापातादिति 5 यत्किश्चिदेतत् ॥
अथ रसनेन्द्रियं निरूपयतिरसग्राहकमिन्द्रियं रसनं, प्राप्यकारि। रसश्चाम्लमधुरतिक्तकषायकटुभेदेन पञ्चविधः॥
रसग्राहकमिति । रस्यत आस्वाद्यते इति रसः, तद्विषयकज्ञानसाधनमिन्द्रियं रसन10 मित्यर्थः, रसविषयकमतिज्ञानसाधनत्वे सतीन्द्रियत्वन्तु लक्षणम् , कृत्यं पूर्ववदूह्यम् । नेद
मिन्द्रियं चक्षुर्वदप्राप्यकारि किन्तु जघन्यतोऽङ्गुलासंख्येयभागप्रमितप्रदेशादागतमुत्कर्षण नवयोजनादागतं वा स्वदेशमालिङ्गितमात्मप्रदेशैरात्मीकृतं रसं गृह्णातीत्याशयेनाह प्राप्यकारीति । स्वदेशे विषयं स्पृष्टं ततो बद्धं प्राप्य रसनेन्द्रियं ज्ञानमुत्पादयति, श्रोत्रापेक्षयाs
स्यापटुत्वात् शब्दापेक्षया च रसस्य स्तोकत्वात् बादरत्वाच्चेति भावः । रसं विभजते रस15 श्चेति । अग्निदीपनकृदम्लः, पित्तादिप्रशमनो मधुरः, श्लेष्मादिदोषहन्ता तिक्तः, रक्तदोषा
द्यपह" कषायः, गलामयादिप्रशमनः कटुः । तथा च भिषक्शास्त्रं-" अम्लोऽग्निदीप्तिकृत्स्निग्धश्शोफपित्तकफापहः । क्लेदनः पाचनो रुच्यो मूढवातानुलोमकः ॥ पित्तं वातं विषं हन्ति धातुवृद्धिकरो गुरुः । जीवनः क्लेशद्वालवृद्धक्षीणौजसां हितः ॥ श्लेष्माणमरुचिं पित्तं
तृषं कुष्ठं विषं ज्वरम् । हन्यात्तिक्तो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ रक्तदोषं कर्फ पित्तं 20 कषायो हन्ति सेवितः । रूक्षश्शीतो गुणग्राही रोचकश्च स्वरूपतः ॥ कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः” इति । लवणस्तु मधुरादिसंसर्गजत्वान्न पृथगुक्त इति ॥
घ्राणं लक्षयति
गन्धज्ञानासाधारणकारणमिन्द्रियं घ्राणम्, प्राप्यकारि । गन्धोऽपि 25 सुरभिदुरभिभेदेन द्विविधः ।
गन्धज्ञानेति । गन्ध्यत आघायत इति गन्धस्तद्विषयकज्ञाने यदसाधारणं कारणमिन्द्रियं तद् घ्राणमित्यर्थः । संभिन्नस्रोतोलब्धिवारणायासाधारणेति, एवं सर्वत्रेदं वाच्यम् ।