________________
चक्षुरिन्द्रियम् ] न्यायप्रकाशसमलङ्कृते
: ३३३ : शलाकादिकं कुतो न पश्यति तस्मादप्राप्यकार्येव । ननु यदि चक्षुरप्राप्यकारि भवेत्तर्हि दूरव्यवहितानप्यर्थान् गृह्णीयात् मनोवत् न च तथा, किन्तु अनावृतमदूरभवमेवार्थ, तस्मिनेव तस्य सम्बन्धसम्भवात् , अन्यथाऽऽवरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात् , नहि तदावरणमुपघातकरणसमर्थम् , प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातात्सम्भवत्यावरणादिकम् , मैवम् , दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान गृह्णाति 5 तस्यापि सूक्ष्मेष्वागमादिगम्येष्वर्थेषु मोहदर्शनात् तस्माद्यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमापेक्षत्वान्नियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितोपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । दृष्टश्चैतदप्राप्यकारित्वेऽप्ययस्कान्तस्य स्वभावविशेषादेव योग्यदेशापेक्षणम् । अन्यथा सर्वाण्यप्ययांसि जगद्वर्तीनि तेन आकृष्येरन् न तु प्रतिनियतमेव । न, चायस्कान्तोऽपि 10 प्राप्यकारी, छायाणुभिस्समाकृष्यमाणवस्तुसम्बन्धात् छायाणूनां सूक्ष्मत्वादेव नोपलम्भ इति वाच्यम्, तद्ब्राहकप्रमाणाभावात् । न चाप्रमाणकं प्रतिपत्तुं शक्यमतिप्रसङ्गात् । न च यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन आकर्षणश्चायसोऽयस्कान्तेन, तत्र साक्षादयसोऽयस्कान्तेन संसर्गस्य प्रत्यक्षबाधितत्वेऽपि सूक्ष्मछायाणुभिर्निर्वाह्य इति वाच्यम् हेतोरनैकान्तिकत्वात् , मन्त्रेण हि व्यभिचारः, स स्मर्यमाणो विवक्षितं संसर्गाभावेऽ 15 प्याकर्षति । तथा छायाणुभिरयांसीव काष्ठादीन्यप्याकृष्येरन् सम्बन्धाविशेषात् । न चास्ति तत्र शक्तिप्रतिनियम इति वाच्यम् , अप्राप्तावपि तेनैव निर्वाहे छायाणुकल्पनाया वैयर्थ्यात् । न च चक्षुः प्राप्यकारि व्यवहितार्थानुपलब्धेरिति प्रमाणं तत्साधकमस्तीति वाच्यम् , व्यभिचारात्, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेरिति न तस्य प्राप्यकारित्वमिति ॥ सम्प्रति चक्षुर्विषयभूतरूपप्रकारमाह रूपमिति । पञ्चविधमिति । एतद्व्यतिरिक्तहरि- 20 तादिवर्णानां पञ्चविधवर्णेषु व्यादीनां मेलनेन जायमानत्वान्नाधिकरूपशङ्का, अत एव ते हरितादयस्सान्निपातिका इति कथ्यन्ते, एते द्रव्यात्कथञ्चिद्भिन्नाः, कथश्चित्तादात्म्यमेवानयोस्सम्बन्धो विशिष्टबुद्धिनियामकः, नीलो घटो नीलरूपवान् घट इति प्रतीतेः, नतु समवायः, नीलो घट इत्यत्र नीलपदस्य विनाऽनुपपत्ति लाक्षणिकत्वापत्तेः, समवायस्य प्रमाणबाधितत्वाच्च । तथाहि समवायिभ्यस्स भिन्नोऽभिन्नो वा स्यात , यद्यभिन्नस्तर्हि न कश्चन समवायोऽस्ति, समवायिभिरव्यतिरिक्तत्वात्तत्स्वरूपवत् । यदि भिन्नस्स कथं समवायिषु वर्त्तते सामस्त्येनैकदेशेन वा, यदि सामस्त्येन, तर्हि प्रतिसमवायि तस्य पर्याप्तत्वेन समवायनानात्वप्रसङ्गः, यद्येकदेशेन
१. प्रयोगश्च चक्षुर्न विषयपरिणामवत् अप्राप्यकारित्वात् मनोवदिति, अप्राप्यकारित्वे सत्यपि, नाविशेषेण सर्वार्थेषु मनःप्रवर्तत इति व्यभिचारं ज्ञानदर्शनावरणादेः प्रतिबन्धकत्वचाह दृष्टान्तस्येति ॥ ..