________________
: ३३० :
Reaन्यायविभाकरे
[ द्वितीयकिरणे
कस्यापि त्वेकः, स च केवली सिद्धो वा भवस्थकेवली वा भवेत्, भवस्थ केवलिनोऽद्यापि सकर्मकत्वादेकदैक एवोपयोगः, सिद्ध केवलिनस्तु सकलकर्मविमुक्तत्वेन युगपद् द्वावप्युपयोगौ भवत इति भद्रबाहुस्वाम्यभिप्राय इति वाच्यम्, सिद्धाधिकारे सिद्धस्यैव तैर्बुपयोगस्य निषिद्धत्वात् । ' उवउत्ता दंसणे य नाणे य' इति वचनन्तु समुदायविषयमेव न तु कस्य5 चिदपि युगपदुपयोग प्रतिपादनपरम् । साद्यपर्यवसितत्वमपि तयोर्न बाधकं, यद्बोधस्वभावेन सदावस्थितं तस्योपयोगेनापि सदा भवितव्यमिति नियमाभावात्, लब्ध्यपेक्षया तयो - रपर्यवसितत्वोक्तेः । केवलज्ञानदर्शन भिन्नज्ञानदर्शनानां निजनिजस्थितिकालं यावदुपयोगा भावेऽपि सत्त्वस्या दर्शनात् । उपयोगो ह्येषामान्त मौहूर्त्तिकः, तस्मात्सतोऽप्यवश्यमुपयोगेन भवितव्यमिति न नियमो व्यभिचारात् । न च क्रमिकोपयुक्तत्वे केवलिनो दर्शनो10 पयोगाभावकाले सर्वदर्शित्वं ज्ञानोपयोगाभावकाले चासर्वज्ञत्वं प्राप्नोति न चैतदिष्टं सर्वदैव केवलिनः सर्वज्ञत्व सर्वदर्शित्वयोरिष्टत्वादिति वाच्यम्, छद्मस्थस्यापि ज्ञानदर्शनयोरेकतरस्मि
पयोगे प्रोक्तदोषसमूहस्य जागरूकत्वात् । तथा च निरावरणत्वेऽपि केवलिनस्स्वभावादेव युगपदुपयोगाभाव इति । यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनस्सिद्धसेनदिवाकरा वदन्ति - सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ? एकस्योत्पादेs 15 परस्याप्युत्पादापत्तेः, एकसामग्र्या अपरोत्पत्तिप्रतिबन्धकत्वे विनिगमनाविरहेणापरसामग्र्या अप्येोत्पत्तौ प्रतिबन्धकत्वेनोभयोरप्यभावप्रसङ्गात् " सव्वाउ लद्धीउ सागारोवउगोवउतस्से " ति वचनप्रामाण्यात्प्रथमं केवलज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेन्न लब्धियौगपद्य एवास्य वचनस्य साक्षित्वेनोपयोगक्रमाक्रमयोरौदासीन्यात् । यौगपद्येनाप्युक्तवचनस्य निर्वाहे दर्शनस्यानन्तरोत्पत्स्यसिद्धेश्च न च ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन 20 तुति निर्विकल्पक समाधिरूपछद्मस्थकालीन दर्शनात्प्रथमं केवलज्ञानोत्पत्तिः केवलदर्शने केवलज्ञानत्वेन विशेषहेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिस्ततश्च क्रमिकसामग्रीद्वयसपया क्रमिकोपयोगद्वयधारानिर्वाह इति वाच्यम्, दंसणपूवं नाणं " इत्यादिना तथा हेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् उत्पन्नस्य केवलज्ञानस्य क्षायिकभावत्वेन नाशा - योगाच्च । न च मुक्तिसमये आयिकचारित्रनाशवन्नश्यतीति वाच्यम्, तस्य आयकत्वेऽपि 25 योगस्थैर्यनिमित्तकत्वेन निमित्तनाशनाश्यत्वात् केवलज्ञानस्य चानैमित्तिकत्वादुत्पत्तौ ज्ञप्तौ
"L
१. अनन्ता हि सिद्धास्तत्समुदाये केऽपि ज्ञाने उपयुक्ताः केऽपि च दर्शन इति समुदायापेक्षं युगपदुपयोग प्रतिपादनं न तु प्रत्येकापेक्षया प्रत्येकस्य युगपदुभयोपयोगनिषेधादिति भावः । सिद्धो हि बोधस्वभावेन सदावस्थितः, अतस्तेन सोपयोगेन भवितव्यमिति द्वयोर्युगपदुपयोगसिद्ध इति सायपर्यवसितत्वं तयोरित्याशंकायामाह साद्यपर्यवसितत्वमपीति ॥