________________
उपयोग: ]
भ्यायप्रकाशसमलते । दर्शनं तत्समानकालीनं नवा ?, केवलज्ञानक्षणत्वं वा स्वसमानाधिकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं नवेति संशये युगपदुपयोगद्वयवादिनो मल्लवादिप्रभृतय आहुः, चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मककालत्वात् , श्रुतमनःपर्यवज्ञानवत् , वाक्यार्थविषयश्रुतज्ञाने मनोद्रव्यविशेषालम्बनमनःपर्यायज्ञाने चादर्शनस्वभावे मत्यवधिजाद्दर्शनोपयोगाद्भिन्नकालत्वं प्रसिद्धमेव, तथैतान्यपि, केवलिनो ज्ञानदर्शनोपयोगी 5 त्वेककालीनौ युगपदावि तस्वभावत्वाद्यथा रवेः प्रकाशतापौ, क्षीणावरणे च जिने यथा मत्यादिज्ञानस्यावग्रहादिचतुष्टयरूपज्ञानस्य वाऽसम्भवस्तथा विश्लेषतो ज्ञानोपयोगकालभिन्नकाले दर्शनं नास्ति, क्रमोपयोगत्वस्य मतित्वादिचतुष्टयव्याप्यत्वात् सामान्यविशेषोभयालम्बनक्रमोपयोगत्वस्य चावग्रहाद्यात्मकत्वव्याप्यत्वात् केवलयोः क्रमोपयोगत्वे व्यापकयोरप्यापत्तिः स्यात्तथाऽऽगमेऽपि यत्केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वमुक्तं तदपि सङ्गच्छते, 10 अन्यथा द्वितीयसमये ज्ञानाभावेन तृतीयसमये दर्शनाभावेन च तयोः पर्यवसानेनापर्यव. सितत्वं व्याहतं स्यादिति । क्रमोपयोगवादिनो जिनभद्रगणिक्षमाश्रमणपूज्यपादाश्च प्राहुः प्रज्ञापनादौ हि सिद्धस्साकारोपयोग एव सिद्ध्यतीत्युक्तं साकारानाकारोपयोगयोर्युगपदभ्युपगमे साकारेति विशेषणं निरर्थकं स्यात्, एवश्व तरतमोपयोगता सिद्धस्य साकारो. पयोगोऽन्यस्मिन् कालेऽन्यदा चानाकारोपयोग इति । अत् एव च सिद्धान्ते तत्र तत्र 15 सिद्धानां ज्ञानदर्शनयोः पार्थक्येन कथनं सङ्गच्छते, अनयोरविशेषे तु केवलज्ञानदर्शनावरणद्वयमपि न घटेत, न ह्येकस्य द्वे आवरणे युज्येते, तथा साकरोपयोगस्याष्टधात्वमनाकारस्य चतुर्विधत्वं ज्ञानस्य पञ्चविधत्वं दर्शनस्य चतुर्विधत्वं व्याहन्येत, न च " असरीरा जीवघणा उवउत्ता दसणे य नाणे य” इत्यत्र युगपदेव केवलज्ञानदर्शनोपयोगश्रवणाधुगपत्तौ सिद्ध्यत इति वाच्यम् ” नाणम्मि दंसणम्मि य एत्तो एगयरयम्मि उवउत्तो । 20 सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा” इति भद्रबाहुस्वामिभिर्युगपदुपयोगस्य निषिद्धत्वात् , न च सर्वस्यैव केवलिनो न द्वावुपयोगौ, किन्तु कस्यापि द्वौ स्यातां
१. अत्र क्रमिकोपयोगवादिनां निषेधपक्षः, विधिपक्षस्तु युगपदुपयोगवादिनाम् । अपरविप्रतिपत्तौ वैपरीत्यं भाव्यम् ॥ २. केवलज्ञानक्षणत्वे दर्शनक्षणाव्यवहितोत्तरत्वव्याप्यत्वसंशयः सिद्धत्वापेक्षयाऽन्यथाप्राथमिककेवलज्ञानक्षणे दर्शनक्षणाव्यवहितोत्तरत्वस्याभावेन व्याप्यत्वमनुपपन्नं स्यादिति ॥ ३. यत्र क्रमोपयोगत्वं तत्र मतित्वादिचतुष्टयं, यत्र च सामान्य विशेषोभयालम्बनक्रमोपयोगत्वं तत्रावग्रहाद्यात्मकत्वमिति नियमः, तथा च केवलज्ञानदर्शनयोर्यदि क्रमोपयोगत्वं स्वीक्रियते तर्हि तद्व्यापकस्य मतित्वादिचतुष्टयस्यावग्रहाद्यात्मकत्वस्य चापत्तिः स्यादिति भावः ॥४. नन सर्वमेव सिद्धस्य ज्ञानं दर्शनं वा साकारमेवेति सूचयितुं साकारमिति स्वरूपविशेषणमतो न दोष इत्याशंकायामाहात एवेति, ज्ञानदर्शनयोर्विशेषादेवेत्यर्थः ॥
४२