________________
तस्वन्यायविभाकरे
: - ३२८ :
[ द्वितीयकिरणे
तत्रैव प्रयोजकस्य पर्यनुयोगात्, जिज्ञासामन्तरेणान्यस्यासंभवादिति चेन्न जिज्ञासाया ज्ञानातिरिक्ताया असम्भवात्, तस्या एवोपयोगरूपत्वात्, अतिरिक्तत्वे वा तस्यास्सन्निकर्षेऽकिञ्चित्करायास्सहकारित्वासम्भवात् किञ्चित्करत्वे च तस्या एव कारणत्वमस्तु किमन्तर्गडुना सन्निकर्षेण । न च तदानीं मनस इन्द्रियेण सन्निकर्षाभावान्न प्रसङ्ग इति वाच्यं मनसोऽ5 णुत्वासिद्धेः, द्रव्यमनसोऽशेषात्मप्रदेशव्यापिनः पौगलिकस्याये व्यवस्थापयिष्यमाणत्वेनेन्द्रियैस्संयोगसिद्धेरिति । तस्मादुपयोग एव प्रत्यक्षं प्रति करणमिति भावः । न च ज्ञानस्यैव करणत्वे फलत्वं कस्येति वाच्यम्, स्वार्थसंवित्तेः फलत्वात्, न च स्वार्थव्यवसितिः फलं प्रमाणश्चेति कथं ? विरुद्धत्वान्नहि स्वमेव फलं स्वमेव प्रमाणं भवितुमर्हतीति वाच्यम्, प्रमाणफलयोः कथञ्चिद्भेदाभेदादुभयोपपत्तेः । एवमेव ' ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमि10 हात्मनः । करणत्वे विनिर्दिष्टा न विरुद्धा कथञ्चने ' ति लब्धीन्द्रियस्य करणत्ववादिनां मतमपि न समीचीनम्, तथा फले जनयितव्ये उपयोगेन व्यवधानात्साधकतमत्वासिद्धेः । तस्या ज्ञानशक्तेः प्रत्यक्षत्वे शक्तीनां परोक्षत्वसाधनमार्हतानां विरुद्धं स्यात् । परोक्षत्वे च मीमांसकमतप्रवेशापत्तेः, करणज्ञानस्य परोक्षतायाः फलज्ञानस्य च प्रत्यक्षताया अभ्युपगमात् । अस्माभिश्चोभयोः करणफलयोः प्रत्यक्षताभ्युपगमात्तथा च न लब्धीन्द्रियं करणं 15 प्रमाणं वा, उपचारेण तु सन्निकर्षादिवत्सापि प्रमाणं स्यादिति ।।
ननु शब्दाद्यर्थग्रहणे चतुर्विधानामेतेषामिन्द्रियाणां मिलित्वा हेतुत्वं किंवा द्वित्रयादी - नामित्याशङ्कायामाह समुदितानीति, निर्वृत्त्यादीनामेकतराभावेऽपि जीवस्य शब्दादिविषयस्वरूपावबोधो न कदापि भवति विकलकरणत्वादतो मिलितानां हेतुत्वं, अत एव च मिलितानामिन्द्रियव्यपदेश इत्याहेन्द्रियेति । तथा च यस्य यावन्ति द्रव्यभावरूपाणीन्द्रियाणि तस्य 20 तावत्सु समुदितेष्विन्द्रियव्यपदेशो न न्यूनेष्विति भावः । सोऽयमुपयोग एकस्यैकोपयोगकालावच्छेदेनैक एव, नान्यः अर्थान्तरोपयोगकाले पूर्वोपयोगबलस्य विनाशात्, तथानुभवात्, नहि चक्षुर्दर्शनकाले श्रोत्रज्ञानोत्पत्तिरनुभूयते, न चावृतत्वात्तदनुत्पत्तिरिति वाच्यम्, स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमेणैव ज्ञानोत्पत्तिरिति वाच्यम्, सर्वाङ्गीण सुखोपलम्भाद्युपपत्तये मनोवर्गणापुद्गलानां शरीर25 व्यापकत्वकल्पनात्, तस्माद्युगपदने कप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत्, एवं सन्निहितेऽपि सामान्यविशेषात्मके वस्तुनि विषये प्रधानीकृत सामान्य उपसर्जनीकृतविशेषः केवलदर्शनोपयोग एतद्विपरीतः केवलज्ञानोपयोगः । अत्र केवलज्ञानं स्वसमानाधिकरणं यत्केवल
१. प्रयोजकस्येति शेषः तथा च जिज्ञासाया आवश्यकत्वे तत्सहकृतसन्निकर्षस्यैव हेतुत्वमिति तदेव प्रमाणं व्यभिचाराभावादिति पूर्वपक्षाशयः ॥