________________
इन्द्रियनिरूपणम् ] अथोपयोगे न्द्रियमाचष्टे --
न्यायप्रकाशसमलङ्कृ
: ३२७ :
अर्थग्रहणनिमित्त आत्मव्यापार परिणामविशेष उपयोगः ॥
अर्थग्रहणेति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः करणे घञ् । उपयोगो ज्ञानं संवेदनं प्रत्यय इति पर्यायाः । स द्विविधस्सा कारोऽनाकारश्चेति, स चेतनेऽचेतने वा वस्तुन्युपयुञ्जान आत्मा यदा सपर्यायमेव वस्तु परिच्छिनत्ति तदा स 5 उपयोगस्साकार उच्यते, स च कालतछद्मस्थानामन्तर्मुहूर्त्तम्, केवलिनामेकसामयिकः । सोऽयं मतिश्रुतादिभेदेनाष्टविधः, यस्तु वस्तुनस्सामान्यरूपतया परिच्छेदस्सोऽनाकारोपयोगः कालः पूर्ववदेव, अयमपि चक्षुर्दर्शनादिरूपेण चतुर्विधः । एतत्सर्वानुस्यूतं लक्षणमाह-अर्थग्रहणेति । आत्मव्यापारमात्रस्योपयोगत्वाभावादर्थग्रहणनिमित्त इति, तावन्मात्रस्य च निर्वृत्त्यादावपि सत्त्वाद्विशेष्यम् । अयमुपयोगो यदा द्रव्येन्द्रियापेक्षो भवति तदैवोपयोगे - 10 न्द्रियनामभाग्भवति नान्यथा, अत एवावध्याद्युपयोगस्य नेन्द्रियत्वमवध्यादीनामतीन्द्रियत्वात् । इन्द्रियाणां लाभक्रमस्तु प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिस्ततो बाह्याभ्यन्तरभेदभिन्नं निर्वृत्तेश्शक्तिरूपमुपकरणं तदनन्तरचेन्द्रियार्थोपयोग इति ॥
अयमेव ज्ञानात्मोपयोगस्स्वपरव्यवसितौ साधकतमत्वात्प्रमाणं न सन्निकर्षो नवा द्रव्येन्द्रियमित्याह —
अयमेव प्रत्यक्षं प्रति करणम् | समुदितान्येतानि शब्दाद्यर्थं गृह्णन्ति, इन्द्रियव्यपदेशभाञ्जि च ॥
15
,"
अयमेवेति । उपयोग एवेत्यर्थः एवशब्देन सन्निकर्षादीनां व्युदासः, लब्ध्युपयोगावात्मनः फले जनयितव्ये योग्यत्वाद्र्याप्रियमाणत्वाच्च प्रसिद्धौ उक्तश्च " भावेन्द्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाद्व्यापृतत्वाच्च संविद इति । 20 संविदात्मा, सेयं लब्धिस्स्वार्थसंविदि योग्यत्वेऽपि प्रकृतानुपयोगित्वान्न प्रमाणव्यपदेशभाक्, प्रमितौ साधकतमस्यैवोपयोगित्वात्तादृशश्चोपयोग एव प्रमाणं व्यापारमन्तरेण स्वार्थसंवि दोsनुपपत्तेः, अन्यथा सुषुप्तस्यापि तत्प्रसङ्गस्स्यात् । न च तदानीं सन्निकर्षाभावादेव न प्रसङ्ग इति वाच्यम्, स्पर्शनादीन्द्रियैरतिमसृणतूलिकाताम्बूलमालती मांसला मोदसुन्दरगेयशब्दादिसन्निकर्षस्य तदानीमपि भावात् । ननु जिज्ञासासहकृतस्यैव सन्निकर्षादेर्हेतुत्वम- 25 न्यथा तवापि तदानीमुपयोगः कथं न स्यात्, न च क्षयोपशमाभावान्नोपयोग इति वाच्यम्,
१. साकारानाकारद्वयात्मक उपयोग एवेति भावः, सोऽपि उपसर्जनीकृततदितराकारः स्वविभासकत्वेन प्रवर्त्तमानः प्रमाकरणं न तु निरस्तेतराकारः, तथाभूतवस्त्वभावेन निर्विषयतया प्रमाणत्वानुपपत्तेरिति तात्पर्यम् ॥