________________
: ३२६ :
5
अथोपकरणेन्द्रियमाचष्टे
15
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे
आन्तरेति । आन्तरेन्द्रियं श्रोत्राद्यन्तर्निर्वृत्तिः कदम्बपुष्पाद्याकारस्तद्वृत्तिर्यो विषयग्रहणसामर्थ्यात्मक शक्तिविशेषश्शक्तिशक्तिमतोरभेदात् सोऽपि द्रव्येन्द्रियमुच्यत इति भावः । इदमपीन्द्रियं बाह्याभ्यन्तरनिर्वृत्तिनिष्ठत्वाद् द्विविधमिति तत्त्वार्थभाष्यकृत् । आगमे तु न कापि तादृशी व्यवस्था दृश्यतेऽतः केवलमान्तरेन्द्रियनिष्ठ इत्युक्तम् । अस्य शक्तिरूपेन्द्रियस्य द्रव्येन्द्रियत्वे युक्तिमाह पुद्गलेति । शक्तिशक्तिमतोः कथञ्चिदभेदादिति भावः । अस्य 10 शक्तिविशेषस्य, द्रव्यत्वं द्रव्येन्द्रियत्वमित्यर्थः । अभेद एवानयोरुच्यतां किं कथञ्चिद्भेदेनेत्यत्राह अस्येति शक्तिविशेषस्येत्यर्थः, उपघात इति वातपित्तादिना विनाश इत्यर्थः, निर्वृत्तीन्द्रियसत्त्वेऽपीति, कदम्बपुष्पाद्याकाराया अन्तर्निर्वृत्तेस्सत्त्वेऽपीत्यर्थः, नार्थग्रह इति, न जीवशब्दादिविषयं गृह्णातीत्यर्थः, तथा चास्ति कथञ्चिद्भिन्न आन्तरेन्द्रियनिष्ट शक्तिविशेष इति भावः ।। भावेन्द्रियं विभजते-
आन्तरेन्द्रियनिष्ठस्स्वस्वार्थग्रहणसामर्थ्यात्मकशक्तिविशेष उपकरणेन्द्रियम् । पुद्गलशक्तिरूपत्वादस्य द्रव्यत्वम् । अस्योपघाते च निर्वृत्तीन्द्रियत्वेsपि नार्थग्रहः ||
भावेन्द्रियमपि द्विविधम् । लब्ध्युपयोगभेदात् । आत्मनिष्ठेन्द्रियावरणक्षयोपशमरूपार्थग्रहणशक्तिर्लब्धिः ॥
भावेति । स्पष्टम् । लब्धीन्द्रियस्वरूपमाहाऽऽत्मनिष्ठेति । लाभो लब्धिः प्राप्तिरित्यर्थः, आवरणक्षयोपशमप्राप्तिरिति भावः । ज्ञानस्य तदावरणस्य चात्मनिष्ठत्वेन तत्क्षयोपशमोऽपि तन्निष्ठ एवेत्यत उक्तमात्मनिष्ठेति । इन्द्रियावरणक्षयोपशमादिति, गतिजात्यादिनामकर्मोदय तो 20 मनुष्यत्वपचेन्द्रियत्वादिप्राप्तौ सत्यामिन्द्रियविषयेष्वेव शब्दादिषु योऽयं विशेषोपयोगस्तदावरणक्षयोपशमादित्यर्थः । कारणे कार्योपचारात्तु मूले इन्द्रियावरणक्षयोपशमेत्युक्तम् । केचित्वन्तरायकर्मक्षयोपशमापेक्षिणीन्द्रियविषयोपभोगज्ञानशक्तिलब्धिरिति वदन्ति तादृशक्षयोपशमस्यैवार्थग्रहणशक्तिरूपत्वमित्या हेन्द्रियावरणक्षयोपशमरूपार्थग्रहणशक्तिरिति । शेषमपि द्रव्येन्द्रियं लब्धप्राप्तावेव भवति नान्यथेति ॥
१. कदम्बपुष्पाद्याकृतेर्मांसगोलका कारायाः श्रोत्राद्यन्तर्निवृत्तेर्या शब्दादेर्विषयपरिच्छेत्री शक्तिस्तस्या वातपित्तादिनोपघाते सति यथोक्तान्तर्निर्वृत्तेस्सद्भावेऽपि न शब्दादिविषयं गृह्णाति जीव इत्यतो ज्ञायतेऽस्त्यन्तर्निर्वृत्तिशक्तिरूपमुपकरणेन्द्रियं कथञ्चिद्भिन्नमिति तात्पर्यार्थः ॥