________________
इन्द्रियनिरूपणम् ]
न्यायप्रकाशसमलङ्कृते ।
: ३२५ :
णतिविशेषः, एतेन पृथिव्यप्तेजोवाय्वाकाशरूपत्वं व्युदस्तम्, तथाहि घ्राणं पार्थिवं रूपा - दिषु सन्निहितेषु गन्धस्यैवाभिव्यञ्जकत्वाद्गोघृतवदित्यनुमानं पृथिवीगन्धाभिव्यञ्जकजले नै - कान्तिकम् | रसनं जलीयं रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वान्मुखशोषिणां लालावदित्यनुमानं लवणे व्यभिचरितम् । चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यञ्जकत्वात्प्रदीपवदित्यनुमानं मणौ व्यभिचरितम् रूपस्यैव प्रकाशकत्वात् मणेस्तैजसत्वानभ्युप - 5 गमाच्च तथा चन्द्रकिरणादौ व्यभिचाराच्च । न च तस्य तैजसत्वान्न व्यभिचार इति वाच्यम्, उष्णस्पर्शशून्यत्वेन तैजसत्वासम्भवात्, चन्द्रकिरणं न तैजसं शैत्याज्जलवदित्यनुमानेन तैजसत्वाभावसिद्धेः । स्पर्शनं वायवीयं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यञ्जकत्वादङ्गसङ्गिसलिलशैत्याभिव्यञ्जक व्यजनपवनवदित्यनुमानं घनसारादावनैकान्तिकम् तस्य हि जले शीतस्पर्शस्यैवाभिव्यञ्जकत्वाद्वायवीयत्वाभावाच्च । पृथिव्यादीनामत्यन्तभिन्नजाती - 10 यत्वासिद्धया तदारब्धत्वासिद्धेश्व । शब्दस्स्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते सामान्यविशेषवत्त्वे सति बाकेन्द्रियप्रत्यक्षत्वाद्रूपादिवदित्यनुमानश्च शब्दस्याकाशगुणत्वासिद्ध्याऽसिद्धमिति न पार्थिवत्वादिकमिन्द्रियाणामिति भावः ॥
द्रव्येन्द्रियं विभजते
.
निर्वृत्त्युपकरणभेदेन द्रव्येन्द्रियं द्विविधम् । निर्वृत्तिराकारः ॥
निर्वृत्तीति । निर्वर्त्तनं निर्वृत्तिः प्रतिविशिष्टस्संस्थानविशेषस्तदेवाह निर्वृत्तिराकार इति । उपक्रियतेऽनेनेत्युपकरणमुभयमपि पुद्गलपरिणामम्, भावेन्द्रियस्योपयोगस्य निमित्तं भवति ॥
निर्वृत्तीन्द्रियं विभजते —
15
निवृत्तीन्द्रियमपि द्विविधं बाह्याभ्यन्तरभेदात् । बाह्यं पर्पटिकादि, 20 आन्तरं कदम्बपुष्पाद्याकारः पुद्गलविशेषः ॥
निर्वृत्तीति । आभ्यन्तरबाह्यभेदभिन्नं निर्वृत्तीन्द्रियं निर्माणनामकर्मविशेषेण च निर्वर्त्तितमुपयोगेन्द्रियस्यावधानप्रदाने द्वारभूतम् । तत्र बाह्याया निर्वृत्तेर्बहुविधाकारत पर्पटिकादिरूपेणेत्याशयेनाह बाह्यं पर्पटिकादीति । श्रोत्रस्येयं बाह्या निर्वृत्तिः । नेत्रादीनां भ्रूप्रभृतयः । आन्तरखरूपमाहान्तरमिति, कदम्बेति, अयं श्रोत्रस्यान्तर्निर्वृत्तिरूप:, आदिना 25 धान्यमसूराकारश्चक्षुषः, अतिमुक्तककुसुमचन्द्रकाकारो घ्राणस्य क्षुरप्राकारो रसनस्य नानाकारः स्पर्शनस्य ग्राह्यः । शब्दादिग्रहणोपकारे निर्वृत्तिर्वर्तते ॥