________________
: ३२४.: तरवन्यायविभाकरे
[ द्वितीयकिरणे ननु किन्तावज्ज्ञानस्य विशदावभासत्वं, नेन्द्रियार्थसन्निकर्षोत्पन्नत्वं चाक्षुषज्ञानेऽ व्याप्तेश्चक्षुषोऽप्राप्यकारित्वेनार्थसन्निकर्षाभावात् । नापि प्रतीत्यन्तराव्यवधानेन प्रतिभासमानत्वमीहादिषु सन्देहाद्यपेक्षिष्वव्याप्तेः । न चान्यान्येन्द्रियव्यापारादेवेहादीनामुत्पत्तन तत्र संशयादीनामपेक्षेति वाच्यमनुभवपराहतत्वात्सन्देहादिभ्यो जायमानत्वेनैवेहादीनां 5 प्रतीयमानत्वात् । न चावग्रहहापायधारणा एकसंवेदनरूपास्ततः प्रतीत्यन्तराव्यवधानेन
प्रतिभासमानत्वमक्षतमेवेति वाच्यं स्याद्वादिभिरस्माभिस्तेषामेकत्वस्येवानेकत्वस्यापि स्वीकृतत्वादव्याप्तिः स्थास्यत्येवेत्याशङ्कायामाह
अनुमानादिभ्यो विशेषप्रकाशनाद्विशदत्वमस्य ॥ अनुमानादिभ्य इति । विशेषप्रकाशनादिति, नियतवर्णसंस्थानार्थीकाराणां प्रतिभास10 नात् , अनुमाने च तदभावादिति भावः । ज्ञाने च विशदावभासत्वं प्रबलतरज्ञानावरणवीर्यान्तरायकर्मक्षयोपशमविशेषाद्भवति, न पदार्थधर्मो विशदावभासत्वं सर्वदा तस्य तथैवावभासप्रसङ्गाद्रूपादिवदिति ॥
अथ तद्विभजते
तद्विविधमैन्द्रियं मानसश्च । इन्द्रियजन्यप्रय॑क्षमैन्द्रियम् । मनोज15 न्यप्रत्यक्षं मानसम् ॥
तदिति । सांव्यवहारिकप्रत्यक्षमित्यर्थः । ऐन्द्रियं लक्षयति इन्द्रियेति, इन्द्रियजन्यत्वस्य प्रत्यभिज्ञानादौ प्रत्यक्षत्वस्य मानसप्रत्यक्षे सत्त्वादुभयम् । मानसं लक्षयति मन इति, स्मृत्यादौ मनोजन्यत्वस्यैन्द्रिये प्रत्यक्षत्वस्य सत्त्वादुभयम् । मनोऽत्र द्रव्यरूपं ग्राह्यमन्य
थैन्द्रियेऽतिव्याप्तिस्तदवस्था स्यात् । अवध्यादिषु मनसो हेतुत्वेऽपि न तत्र तदसाधारणमतो 20 न तत्रातिव्याप्तिरसाधारणतया मनोजन्यत्वस्य विवक्षणात् , अत एव वा नैन्द्रियेऽतिव्याप्तिरिति ।
· ननु प्रत्यक्षलक्षणेऽस्मिन्निन्द्रियमनोजन्यत्वमुक्तम् । तत्र किन्तावदिन्द्रियं परैर्मनसोऽपीन्द्रियत्वेन ग्रहणादन तस्य पार्थक्ये किं वा बीजमित्याशङ्कायामाह
तत्रेन्द्रियं द्रव्यभावभेदेन द्विविधम् ।। 25 तत्रेति । सांव्यवहारिकप्रत्यक्षलक्षणघटकीभूतमिन्द्रियं द्रव्यत्वभावत्वरूपविभाजकधर्म
द्वयवदित्यर्थः । द्रव्यं परिणामविशेषपरिणतवर्णादिचतुष्टयवत्पुद्गलात्मकम् , भाव आत्मपरि