SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ... 10 सांव्यवहारिकम् ] न्यायप्रकाशसमलते : ३२३ अथ द्वितीयः किरणः। एवं प्रत्यक्षभेदे निरूपिते परोक्षभेदान्निरूपयितुं प्रथमतः परोक्षलक्षणं प्रकाशयति व्यवहितात्मद्रव्यजन्यं ज्ञानं परोक्षम् ॥ . . व्यवहितेति । साक्षादात्मना न जन्यते यज्ज्ञानमपि तु व्यवधायकानिन्द्रियादीनाश्रित्य, तादृशं ज्ञानं निमित्तापेक्षत्वाद् व्यवहितात्मद्रव्यजन्यं अतः परोक्षमित्युच्यत इत्यर्थः । न च 5 निमित्तापेक्षत्वं व्यभिचारि, अवधिनान्तरङ्गस्य क्षयोपशमस्य बहिरङ्गस्य विषयादेरपेक्षणात् , एवं मनःपर्ययज्ञानमपि निमित्तापेक्षं, केवलज्ञानमपि घातिकर्मक्षयं विषयच्चापेक्षत एवेति वाच्यम् , विशिष्टनिमित्तापेक्षत्वस्यैव वाच्यत्वात् , तच्च विशिष्टं निमित्तमिन्द्रयानिन्द्रियाख्यं श्रुते च मतिपूर्वकत्वमपि, अतो न व्यभिचारः ॥ । अथ सांव्यवहारिकप्रत्यक्षलक्षणमाचष्टेइन्द्रियमनोजन्यो विशदावभासस्मांव्यवहारिकप्रत्यक्षम् ॥ इन्द्रियेति । इन्द्रियेण मनसा तदुभयेन वा जन्यो विशदावभास इत्यर्थः, तत्रेन्द्रिय. निमित्तको विशदावभासो मनोहीनानामेकद्वित्रिचतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणाञ्च । मनोजन्यो विशदावभासो मानससुखादिज्ञानम् , तत्र चक्षुरादिव्यापाराभावात् । तदुभयजन्यो विशदावभासः पश्चेन्द्रियाणां घटादिरूपादिचाक्षुषादिज्ञानम् । इन्द्रियजन्यविशदावभासत्वस्य 15 सुखादिमानसेऽव्याप्त्या मनःपदम् । मनोजन्यविशदावभासत्वस्येन्द्रियमनोजन्यविशदावभासत्वस्य वैकेन्द्रियादीनां प्रत्यक्षेऽसत्त्वादिन्द्रियजन्यविशदावभासत्वमपि विवक्षितं, स्मृतिप्रत्यभिज्ञादावतिव्याप्तिवारणाय विशदावभासत्वमुक्तम् । तदुभयजन्यविशदावभासत्वन्तु लक्षणे न प्रवेशनीयं फलाभावात् , पञ्चेन्द्रियचाक्षुषादिप्रत्यक्षस्य मानसस्य चेन्द्रियमनोऽन्यतरजन्यत्वात् , तथा चेन्द्रियमनोऽन्यतरजन्यविशदावभासत्वं सांव्यवहारिकप्रत्यक्षस्य लक्षणम् , 20 मनःपदमुपलक्षकमोघस्य, ओघस्सामान्यमप्रविभक्तरूपम् । ओघज्ञाने नेन्द्रियादि निमित्तं, केवलं मत्यावरणक्षयोपशमविशेष एव कारणम् । वल्ल्यादीनां नीवाद्यभिसर्पणज्ञानमोघज्ञानम् । सांव्यवहारिके प्रत्यक्षे केषाश्चिदालोकविषयेन्द्रियाण्यपेक्षाकारणानि, सति प्रकाशे विषय इन्द्रिये च ज्ञानोदयस्य दृष्टत्वात्तत्राप्यन्तरङ्गापेक्षाकारणमिन्द्रियाणि, पारमार्थिकन्तु कारणं क्षयोपशमस्सर्वज्ञानसाधारणमिति ।। .25 १. परैरक्षं सम्बन्धनं जन्यजनकभावलक्षणमस्येति, परेभ्यः पुद्गलमयत्वेन जीवापेक्षया भिन्नेभ्यो द्रव्येन्द्रियननोभ्योऽक्षस्य जीवस्य यत्तत्परोक्षमिति वा व्युत्पत्त्या इन्द्रियमनोव्यवधानेन जीवस्यार्थविषयसाक्षात्कार इति भावः॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy