________________
: ३२२ : तत्त्वन्यायविभाकरे
[ प्रथमकिरणे कथं प्रवृत्तिरिति पूर्वपक्षः, अत्र केचिद्वदन्ति समाधानम् , मनःपर्यवज्ञानी पश्यत्यवधिदर्शनेन, मनःपर्यवज्ञानेन जानातीत्यतो न विरोध इति तन्न सम्यक् , अवधिमन्तरेणापि मतिश्रुतमनःपर्यवरूपज्ञानत्रयस्यागमे प्रतिपादितत्वात् , किन्तु एकस्यैव मनःपर्यवज्ञानिनः प्रमातुर्मन:पर्यवज्ञानानन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यत इति न जानाति पश्यतीति व्यवहारयोरनु5 पपत्तिः, अत एव न परोक्षत्वाद्यापत्तिः, ज्ञानभेदात् । न चैवं मनःपर्यवज्ञानिनः प्रत्यक्षज्ञानित्वं विरुद्ध्यते, परोक्षज्ञानवत्त्वादिति वाच्यं भिन्नविषयत्वात् , न ह्यवधिज्ञानिनश्च. क्षुदर्शनाचक्षुर्दर्शनाभ्यां पश्यतः प्रत्यक्षज्ञानितायां कोऽपि विरोध इति विभावनीयम् ॥ मनःपर्यवज्ञानसमृद्धिमतामप्रमत्तसंयतानामुत्पद्यमानमिदं द्विधा समुत्पद्यत इत्याह स इति
मनःपर्यव इत्यर्थः । मननं मतिसंवेदनमित्यर्थः, ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः, 10 घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्ट
मनोद्रव्यपरिच्छेदरूपेत्यर्थः । विपुला विशेषग्राहिणी मतिघंटोऽनेन चिन्तितस्स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभूतविशिष्टमनोद्रव्यपरिच्छेदरूपेत्यर्थः ॥
भेदयोरनयोर्विशेषान्तरमाह
15
आद्यज्ञानं कदाचित्प्रच्यवते द्वितीयन्तु न कदापीत्यनयोवैषम्यम् ॥
आयेति । कदाचिदित्युक्तत्वादाकेवलं कदाचिन्न प्रतिपततीति भावः । द्वितीयं विति विपुलमतिरिति भावः, न कदापीति आकेवलमिति शेषः, वैषम्यमिति स्वगतो भेद इत्यर्थः ।
इति तपोगच्छनभोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिसरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पारमार्थिकप्रत्यक्ष
निरूपणो नाम प्रथमः किरणः॥
१.नं चावधेर्दर्शनवन्मनःपर्यवस्थापि दर्शनं स्यात् ततस्तेनासौ पश्यतीति व्यपदेश उपपत्स्यत इति वाच्यम् चतुर्विधदर्शनादधिकस्य दर्शनस्यागमेऽनुक्तत्वात् । न च चक्षुर्दर्शनादिचतुष्टयाधिक्येनानुक्तमपि विभङ्गदर्शनं यथाऽवधिदर्शनेऽन्तर्भूतं तथा मनःपर्यवदर्शनमपि अवधिदर्शनान्तर्भूतं सदवधिदर्शनसंज्ञितं भविष्यतीति वाच्यम् , तथापि शास्त्रविरोधात् , मतिश्रुतमनःपर्ययज्ञानवतो दर्शनद्वयस्यैव मतिश्रुतावधिमनःपर्ययज्ञानवतश्च दर्शनत्रयस्यैव शास्त्रे प्रोक्तत्वात् , यदि मनःपर्यायदर्शनमपि स्यात्तदा मतिश्रुतमनःपर्ययज्ञानी दर्शनद्वयवान्न स्यादिति ॥