________________
मनःपर्यवः ] न्यायप्रकाश
: ३२१: पयोगवत् । एतानि च फडकानि त्रिधा भवन्ति, अनुगामुकानि अननुगामुकानि मिश्राणीति । एतानि च पुनः प्रत्येकं त्रिधा भवन्ति प्रतिपातीन्यप्रतिपातीनि मिश्राणि च एतानि च मनुध्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति न देवनारकावधौ ॥ अथाप्रतिपातिनमाह
तद्विपरीतोऽप्रतिपाती ।। तद्विपरीत इति । प्रतिपातिविपरीत इत्यर्थः । तत्र नैरयिकभवनपतिवानमन्तरज्योतिकवैमानिका अनुगाम्यप्रतिपायवधय एव तिर्यक्पञ्चेन्द्रियाणान्तु षडपि ॥
अथ मनःपर्यवं लक्षयति
संयमविशुद्धिहेतुकं मनोद्रव्यपर्यायमात्रसाक्षात्कारि ज्ञानं मन:पर्यवः । स ऋजुमतिविपुलमतिभेदेन द्विविधः ॥
10 संयमेति । मनोद्रव्यपर्यायमात्रसाक्षात्कारिज्ञानत्वं लक्षणम् । संयमविशुद्धिहेतुकमिति तु अप्रमत्तत्वर्द्धिप्राप्तिक्षान्त्यादिमत एवेदमिति सूचनाय । मात्रपदं अवधिज्ञामे केवले वाऽतिव्याप्तिवारणाय । अवधिहि मनस्साक्षात्कार्यपि स्कन्धान्तरसाक्षात्कारीति न दोषः, एवं केवलेऽपि । न च मनस्त्वपरिणतस्कन्धालोचितं बाह्यमप्यर्थं मनःपर्यवज्ञानं साक्षात्करोतीत्यसम्भव इति वाच्यम् , बाह्यार्थानां तथाविधमनःपरिणामान्यथानुपपत्तिलिङ्गकानुमाने- 15 नैव ग्रहणाभ्युपगमात् , मनःपर्यवस्य धर्मिग्राहकप्रमाणेन मनोद्रव्यमात्रालम्बनतयैव सिद्धेः । अर्धतृतीयद्वीपसमुद्रपरिमाणमानुषक्षेत्रवृत्तिमनोद्रव्यविषयमिदं ज्ञानं न तद्वहिर्भूतप्राणिमनास्यवगच्छति । तथा संज्ञिजीवैर्मनोद्रव्याणि गृहीत्वा मनस्त्वेन परिणमितानां द्रव्यमनसामनन्तान् पर्यायान् विषयीकरोतीदम् । न तु भावमनसः पर्यायान् , अमूर्त्तत्वात् छद्मस्थस्य चामूर्त्तविषयायोगात् । अत एव मनःपर्यायमात्रविषयकसाक्षात्कारिज्ञानत्वमित्य- 20 नुक्त्वा मनोद्रव्येत्युक्तम् । मनोद्रव्याणि वीक्ष्य चिन्तनश्चातीतानागतपल्योपमासंख्येयभागविषयम् । पटुतरक्षयोपशमप्रभवत्वादिदं यतो विशेषमेव गृहदुत्पद्यते न सामान्यमतो ज्ञानरूपमेव न तु दर्शनरूपम् । अत्र मनःपर्यवज्ञानी मनश्चिन्ताप्रवर्तकानि द्रव्याणि जानाति बाह्यार्थाश्चाचक्षुर्दर्शनेन पश्यतीत्यतः कथं न तस्य दर्शनरूपता, अन्यथा पश्यतीति प्रयोगानुपपत्तिः स्यात् यदि चाचक्षुर्दर्शनेन पश्यति तर्हि मतिश्रुतवत्परोक्षत्वं प्राप्तं, अचक्षु- 25 दर्शनस्य तत्रैव समावेशात् प्रत्यक्षार्थविषये मनःपर्यवज्ञाने परोक्षार्थविषयस्याचक्षुर्दर्शनस्य