SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ :३२०: तत्वन्यायविभाकरे [प्रथमकिरणे अननुगामिनमाहउत्पत्यवच्छेदकशरीरावच्छेदेनैव विषयावभासकोऽननुगामी ॥ उत्पत्तीति । शरीरपदमाश्रयपरं तथा च कायोत्सर्गस्थानादिपरिणामविशिष्टयाशशरीरावच्छेदेनावधिरुत्पन्नः तत्स्थानादन्यस्थानमुपयातस्य तादृशपरिणामाभावेन तादृश5 शरीराभावादवधिरपि नश्यति तत्रैव स्थितस्य वर्त्तते च सोऽवधिरननुगामीत्यर्थः, अयं पूर्वश्वावधिर्मनुष्यतिरश्चां भवतीति भाव्यम् ।। हीयमानमाचष्टे स्वोत्पत्तितः क्रमेणाल्पविषयो हीयमानः ॥ स्वोत्पत्तित इति । षड्विधहानिष्वत्र प्रथमान्तिमपरित्यागेन चतुर्विधा हानिर्लाह्या, अव10 धिविषयभूतयोः क्षेत्रकालयोरनन्तत्वासम्भवेनानन्तभागहानेरनन्तगुणहानेश्वासम्भवात् । द्रव्यापेक्षया चानन्तभागहानिरनन्तगुणहानिरिति द्विविधैव स्वाभाव्यात् । पर्यायापेक्षया तु षविधापि हानिर्भवति । द्रव्यक्षेत्रकालपर्यायाणां संयोगे एकस्य हानावपरस्यापि हानिन तु वृद्धिः, तथा द्रव्यादेर्भागेन हानौ अपरस्यापि भागेनैव प्रायो हानिन तु गुणेन तथा गुणेन हानौ अपरस्यापि गुणेनैव हानिन तु भागेन । एवं वृद्धावपि भाव्यम् ॥ 15 वर्धमानमाह - स्वोत्पत्तितः क्रमेणाधिकविषयी वर्धमानः ॥ स्वोत्पत्तित इति । यावत्क्षेत्रं प्रथमावधिज्ञानिना दृष्टं ततः प्रतिसमयमसंख्यातभागवृद्धिं कश्चित्पश्यति कोऽपि संख्यातभागवृद्धि अन्यस्तु संख्यातगुणवृद्धिमपरश्वासंख्यातगुणवृद्धि मित्येवं वृद्धिमानवधिरित्यर्थः ॥ 20 प्रतिपातिनमाचष्टे ___उत्पत्त्यनन्तरं पतनशीलः प्रतिपाती ॥ उत्पत्तीति । उत्पत्त्यनन्तरं कियन्तमपि कालं स्थित्वा ततो ध्वंसनस्वभाव इत्यर्थः । अत्रायं भावः, अवधिज्ञानावरणक्षयोपशमजन्यावधिज्ञाननिर्गमस्थानानि फडकान्युच्यन्ते । तानि चैकजीवस्य संख्येयान्यसंख्येयानि च भवन्ति तत्र चैकफडकोपयोगे च जन्तुर्नियमा25 सर्वत्र सर्वैरपि फडकैरुपयुक्तो भवत्येकोपयोगत्वात् जीवस्यैकलोचनोपयोगे द्वितीयलोचनो
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy