________________
इन्द्रियाणि ]
न्यायप्रकाशसमलङ्कृते
: ३३१ :
चावरणक्षयातिरिक्तानपेक्षणात्, तथैव हि तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितिः । एवं च ज्ञानं व्यक्ततारूपं दर्शनन्त्वव्यक्ततारूपं न च क्षीणावरणेऽर्हति व्यक्तताव्यक्तते युज्येते ततस्सामान्यविशेषज्ञेय संस्पर्युभयैकस्वभाव एवायं केवलिप्रत्ययः, न च ग्राह्यद्वित्वाद्वाहक द्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः, विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु का प्रत्याशा दर्शनपार्थक्ये, आवरणद्वयक्षयादुभयैकस्वभावस्यैव कार्यस्य स - 5 म्भवात्, न चैकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत्परस्परविभिन्नस्वभावद्वयविरोध इति वाच्यम्, दर्शनस्पर्शनशक्तिद्वयात्मकै कदेवदत्तवत्स्वभावद्वयात्मकै कप्रत्ययस्य केवलिन्यविरोधात् ज्ञानत्वदर्शनत्वाभ्यां ज्ञानदर्शनयोर्भेदो न तु धर्मिभेदेन, अत एव तदावरणभेदेऽपि स्याद्वाद एवेति ।।
एवमिन्द्रियस्वरूपमुपदर्य सम्प्रति तत्संख्यामाह -
तत्रेन्द्रियाणि चक्षूरसनघ्राणत्वक्श्रोत्ररूपाणि पञ्च ॥
तत्रेति । अत्र रूपरसगन्धस्पर्शशब्दे तिलौकिक व्यवहारप्रसिद्धक्रमापेक्षया रूपिण: पुद्गला इति सूत्रमनुसृत्य च चक्षुरादिक्रमोऽवलम्बितोऽनानुपूर्वीक्रमस्यापि शास्त्रे प्रसिद्धत्वात् ॥
सम्प्रति चक्षुषो लक्षणमाचष्टे -
रूपग्राहकमिन्द्रियं चक्षुरप्राप्यप्रकाशकारि । रूपं श्वेतरक्तपीतनीलकृष्णरूपेण पञ्चविधम् ॥
•
10
15
रूपग्राहकमिति । अत्र लक्ष्यमिन्द्रियव्यपदेशभाक् निर्वृत्त्युपकरण लब्ध्युपयोगरूपमि - न्द्रियम्, अन्यतमापायेऽपि रूपग्रहणासम्भवात् । रूपविषयकज्ञानसाधनत्वे सतीन्द्रियत्वं चक्षुषो लक्षणम् | आत्मादिवारणायेन्द्रियत्वोपादानम् । रसनादावतिव्याप्तिनिवृत्तये सत्यन्तम् । अत्रेदम्बोध्यम् एकस्यैव वस्तुनोऽवस्थाभेदेन रूपादिस्वरूपत्वं भवति, तथाहि चक्षुषा यदेव विलोकितं तदेव रसनया रस्यते, घ्राणेन घ्रायते स्पर्शनेन स्पृश्यते तदेव 20 चातिकठिनी भूतमभ्यवह्रियमाणं ध्वनिमातनोति न तु क्वचिदेशे रूपं क्वचिदेशे रसः क्वचिद्देशे गन्धादयः । तस्मात्तदेव पुद्गलद्रव्यं चक्षुर्विषयतामापन्नं श्वेताद्याकारेण विषयतया परिणतिमुपागच्छद्रूपमिति व्यपदिश्यते, रसनग्रहणविषयतामितं तिक्तादिपरिणामभाग् रस इति व्यपदेशमनुते, एवमितरेन्द्रियप्राप्तानामपि भाव्यम्, दृश्यते ह्येक एव पुरुषः पितृस्वसृभ्रात्राद्यनेकपुरुषापेक्षया तथातथा व्यपदेश्यतया । तदेवं द्रव्यमिन्द्रिय- 25 नानात्वान्नानाssकाररूपादिभेदमापद्यते, स्वनिमित्ततस्त्वेकाकारं द्रव्यस्वलक्षणविशिष्टत्वात् । तदिदञ्चक्षुः प्रकर्षेणात्माङ्गुलप्रमितसातिरेक योजनलक्षावस्थितं प्रकाशनीयरूपं गृह्णाति,