________________
केवलस्योत्पत्तिः ] न्यायप्रकाशसमलङ्कते
: ३१७: इदश्च घातिकर्मक्षयाद्भवति ॥ इदश्चेति । घात्यघातिरूपेण पूर्व प्रपश्चितस्य द्विविधस्य कर्मणो मध्ये घातिकर्म आवरणं तत्क्षयतः केवलमुदेति । तथाहि यत्स्वविषयेऽप्रवृत्तिमत् तत्सावरणं दृष्टं यथा तैमिरिकस्यैकचन्द्रमसि चाक्षुषं विज्ञानम् , अप्रवृत्तिमच्चास्मदादिज्ञानं स्वविषये निखिलद्रव्यपर्यायलक्षणे । तस्मात्तत्रावरणमपेक्षितम् , तच्चान्यस्यासम्भवाद्धातिकर्मरूपमेव । न चास्मदादिज्ञानस्य 5 समस्तार्थविषयकत्वमसिद्धमिति वाच्यम् , आवरणापाये तत्प्रकाशकत्वात् । न चान्योऽन्याश्रयः, सिद्धे सकलविषयकत्वेऽस्मदादिज्ञानस्य तदावरणापाये तत्प्रकाशकत्वं सिद्ध्यति, तसिद्धौ च विज्ञानस्य सकलविषयकत्वसिद्धिरिति वाच्यम् , विशेषविषयकानुमानमिच्छता भवता निःशेषविषयकव्याप्तिज्ञानस्याभ्युपगतत्वात् । एवं यज्ज्ञानं स्वविषयेऽस्पष्टं तत्सावरणं यथा नीहारधूलिव्यवहितवृक्षादिज्ञानम् , अस्पष्टश्च स्वविषये सर्व सदनेकान्ता- 10 त्मकमित्यादिज्ञानमिति । तथा मिथ्यात्वपटलविलुप्तविवेकदृशां यदेतत्सर्वस्मिन्ननेकान्तात्मकवस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वाद्धत्तूरकाधुपयोगिनो मृत्तिकाशकले कनकज्ञानमिवेति ततस्सिद्धमावरणं कर्म । तच्च कार्यकारणप्रवाहेण प्रवर्त्तमानमनायपि सम्यग्दर्शनादिरत्नत्रयलक्षणेनावरणनिर्जराहेतुभूतसामग्रीविशेषेण निर्मूलं प्रलीयते, कार्यकारणरूपेणानादितः प्रवर्त्तमानस्य बीजाङ्कुरसन्तानस्य निर्दग्धबीजेऽकुरे वा प्रलयवत् । 15 तस्मात्सिद्धमशेषावरणविलयात्समस्तवस्तुविषयं केवलज्ञानमिति । केवलज्ञानमिदं साद्यपर्यवसितं, घातिकर्मक्षयादाविर्भूतत्वात्सादि, तथोत्पन्नस्य तस्य पश्चान्नावरणमस्त्यतोऽनन्तम् , सत्तामाश्रित्येदमनन्तत्वं बोध्यम् । तेन भवस्थकेवलिविशेषपर्यायाणां वज्रर्षभनाराचसंहननादीनामपगमे तदव्यतिरिक्तस्य केवलज्ञानस्यात्मद्रव्यद्वारेण विगमेऽपि न अतिरन्यथाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तेः, सिद्धत्वरूपेण पुनरुत्पद्यते, उत्पादव्ययध्रौव्यात्म- 20 कत्वाद्वस्तुनोऽन्यथा वस्तुहानिः प्रसज्येतेति ॥
अथेदं किं विषयं प्राप्य परिच्छिनत्ति किं वाऽप्राप्येत्याशङ्कायामाह
१. कथश्चित्तस्यात्माव्यतिरिक्तवादात्मनश्च द्रव्यरूपतया नित्यत्वात्तदपेण केवलज्ञानमपि अनन्तमिति भावः ॥ न च केवलज्ञानस्य साद्यपर्यवसितत्वात् जीवस्यानादिनिधनत्वात् छायातपवदत्यन्तभेदेन कथं जीवः केवलं, तथा ज्ञानदर्शनयोः क्षायिकत्वात् क्षायोपशमिकत्वात् जीवस्य पारिणामिकत्वाचेति वाच्यम् , द्रव्यपर्याय. भेदाभेदैकान्तपक्षप्रतिषेधेन कथश्चिद्भेदाभेदात्सर्वस्याप्युपपत्तेः, दरिद्रोऽयमिदानीं राजा जात इत्यादिप्रतीत्या राजत्वपर्यायस्य, राजत्वपर्यायात्मकत्वेन वा पुरुषस्य जातत्वावगाहनात् पर्यायाणामभेदाध्यवसितभेदात्मत्वात् द्रव्यस्य वा भेदानुषक्काभेदात्मकत्वादिति ॥ .