________________
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे अशेषद्रव्यपर्यायविषयकसाक्षात्कारः केवलम् ॥ अशेषेति । अशेषाणि यानि द्रव्याणि पर्यायाश्च तद्विषयकः साक्षात्कार इत्यर्थः, मुख्यतया निखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयकज्ञानमिति भावः, तत्त्वं केवलज्ञानस्य लक्षणम् , केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तम् । पर्यायवाद्यभिमतप्रतीत्यसमु. 5 त्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञानेऽतिव्याप्तिवारणाय विशेष्यम् । प्रमेयवदिति
ज्ञानस्य प्रमेयत्वेन निखिलधर्मप्रकारकज्ञानस्य वारणाय सामान्यधर्मानवच्छिन्नत्वं निखिलधर्मे विशेषणीयम् । तत्र प्रमाणञ्च ज्ञानत्वमत्यन्तोत्कर्षवद्वृत्ति, अत्यन्तापकर्षवद्वृत्तित्वात्परिमाणत्ववदित्यनुमानम् । न चेदमप्रयोजक, ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्वि
श्रान्तेरत्यन्तापकर्षोत्कर्षाभ्यां विनाऽसम्भवात् । न चेन्द्रियाश्रयज्ञानस्यैव तारतम्यदर्शनेन 10 तत्रैवात्यन्तप्रकर्षः प्रसक्त इति वाच्यम् , अतीन्द्रियेऽपि मनोज्ञाने, शास्त्रार्थावधारणरूपे
शास्त्रभावनापकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रियविषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । न च भावनाजन्यमेव प्रातिभवत्केवलज्ञानं प्राप्तं, तथा चाप्रमाणं स्यात् कामातुरस्य सर्वदा कामिनी भावयतो व्यवहितकामिनीसाक्षात्कारवदिति वाच्यम् , अप्रामाण्ये भावनाजन्यत्वस्याप्रयोजकत्वात् , बाधित. विषयत्वस्यैव प्रयोजकत्वात् , भावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात् प्रकृते च विषयबाधाभावात् । न च व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लृप्तत्वात्तजन्यत्वेनास्याप्यप्रामाण्य, बाधितविषयत्ववदोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वादिति वाच्यम.भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वानिश्चयात. अन्यथा शंखपीतत्वभ्रमकारणी.
भूतस्य पीतद्रव्यस्य स्व विषयज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किञ्चिदेतत् । क्वचिदेव 20 कश्चिद्दोष इत्येवाङ्गीकारात् विषयबाधेनैव दोषजन्यत्वकल्पनाच्च । दुष्टकारणजन्यस्याप्यनुमाना
देविषयाबाधेन प्राम.ण्याभ्युपगमात् । न च परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनकस्वासम्भवः न हि व यनुमितिज्ञानं सहस्रकृत्व आवृत्तमपि वह्निसाक्षात्काराय कल्पत इति वाच्यम् , तजन्यप्रकृष्टाऽऽवरणक्षयादेव केवलज्ञानोत्पत्तिरिति सिद्धान्तादिति संक्षेपः ।।
नन्वावरणक्षयात्केवलज्ञानोत्पत्तिरित्यसङ्गतं, तथाहि किमिदमावरणं, शरीरं देशकाला25 दिकं वा, नाद्यस्तत्सत्त्वेऽप्यर्थोपलम्भात् , न द्वितीयो देशकालयोरमूर्तत्वात् , परमाण्वादेश्व
सूक्ष्मस्वभावत्वात् , । न च मूलकीलकोदकादेर्लोकप्रसिद्धमेव भूम्याद्यावरणत्वमिति वाच्यम् , अतिशयसमृद्धिशालिनापि योगिनेदृशस्यावरणादेरभावस्य कर्तुमशक्यत्वात् । न चान्यत्किबिदावरणं प्रसिद्धमित्याशङ्कायामाह
5