________________
सकलज्ञानम् ]
न्यायप्रकाश समलङ्कृ
अव्यवहितेति । स्वोत्पत्तौ सांव्यवहारिक प्रत्यक्षादिकमिन्द्रियानिन्द्रियादिव्यवहितात्मद्रव्यमाश्रित्य जायते, पारमार्थिकप्रत्यक्षन्तु न तथा, किन्तु ज्ञानदर्शनावरणक्षयोपशमात् तत्क्षयाद्वेन्द्रियानिन्द्रियद्वारनिरपेक्ष मात्मद्रव्यमेवाव्यवहितमाश्रित्य समुन्मिषतीत्यतोऽव्यवहितात्मद्रव्यमात्रसमुत्पन्नत्वे सति ज्ञानत्वं तल्लक्षणं, भवगुणसम्यक्त्वादीनामपेक्षणेऽपि तेषां द्रव्यत्वाभावान्नावध्यादावव्याप्तिरिति भावः । तद्विभजते तदिति पारमार्थिकप्रत्यक्षमित्यर्थः। 5 सकलमिति सर्वद्रव्यपर्यायविषयकत्वात्स कलमित्यर्थः, विकलमिति, कतिपयद्रव्यपर्यायविषयकत्वाद्विकलमित्यर्थः ॥
: ३१५ :
किन्तत्र सकलं ज्ञानमित्यत्र दृष्टान्तमाह -
कृत्स्नावरणक्षयात्केवलं ज्ञानं सकलम् ॥
कृत्स्नेति कृत्स्नावरणक्षयः समस्तघातिकर्मवियोग: स चान्तरङ्गबहिरङ्गसामग्री - 10 जन्यः | अन्तरङ्गसामग्री सम्यग्दर्शनादिरूपा, बहिरङ्गा तु जिनका लिकमनुष्य भवादिरूपा, तथा चान्तरङ्गबहिरङ्गसामग्रीप्रसूतस कलावरणक्षयाद्यत्केवलज्ञानमुदेति तत्प्रतिबन्धस्य कस्य - चिदभावेन सकलविषयकत्वात्सकलं पारमार्थिकप्रत्यक्षमिति भावः । अत्र कृत्स्नावरणक्षयादित्युक्त्याऽव्यवहितोत्तरक्षणे केवलज्ञानोत्पत्तिः प्रकाशिता व्यवहारनयेन, आवरणस्य क्षयसमये श्रीयमाणत्वात् श्रीयमाणस्य चाक्षीणत्वात् क्रियाकालनिष्ठाकालयोर्भेदात् तयोरभेदे च 15 क्रियावैयर्थ्यप्रसङ्गात् क्रियाकालेऽपि कार्यस्य सत्त्वात्समकालभाविनोश्च सव्येतर गोविषाणयोरिव क्रियाकार्ययोः कार्यकारणभावायोगादिति । निश्चयनयेन तु क्षीयमाणावरणसमय एव केवलज्ञानोत्पत्तिः क्रियाकालनिष्ठाकलियोर्भेदे क्रियाविरहेऽपि कार्योत्पत्त्यभ्युपगमापत्त्या क्रियारम्भकालात्पूर्वमपि कार्योत्पत्तिप्रसङ्गात् क्रियाकालेऽप्यावरणक्षयाभावे पश्चादपि पूर्वकालवत्तदभावप्रसङ्गः स्यादक्रियत्वात् । अक्रियस्य तदभ्युपगमे क्रियान्वितसमयेऽपि क्रियाया 20 वैयर्थ्यापत्तेः क्रियाविरहितसमयवत् । तस्मात्क्रियाकालनिष्ठाका लेयोरेकत्वं प्रतिबन्धकाभावादेव चावरणस्य क्षीयमाणतासमये निष्ठा न विरुद्धेति ॥
अथ केवलज्ञानस्य लक्षणमाचष्टे
२. अन्यस्मिन् काले क्रिया, अन्यस्मिंश्व कार्योत्पत्तिरिति भेद इत्यर्थः । २. एवं आवरणक्षीमाणका क्रियाया अभावे आवरणक्षयो न स्यादेव क्रियां विना तत्रान्यस्य हेतोरभावात्, आवरणक्षीयमाणकाले च तद्धेतुक्रिया सत्ताभ्युपगमे क्रियाकाल निष्ठाकालयोरेकत्वमर्थसिद्धमित्यपि भाव्यम् ॥