________________
: ३१४ : तत्त्वन्यायविभाकरे
[ प्रथमकिरणे भावः । परोक्षमिति, आत्मापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोरूपेभ्यःपरेभ्यः अक्षस्य जीवस्य यद्वर्त्तते तत्परोक्षं मतिश्रुतरूपम् । पुद्गलनिचयनिष्पन्नानि हि द्रव्येन्द्रियमनांसि जीवस्य परभूतान्यतस्तेभ्यो यन्मतिश्रुतलक्षणं ज्ञानं धूमादेरग्न्यादिज्ञानवत्परनिमित्तत्वात्परोक्षं, किञ्चेन्द्रियमनोनिमित्तं ज्ञानं परोक्षं तत्र संशयविपर्ययानध्यवसायसम्भवात् , इन्द्रियमनोनिमित्त5 कासिद्धानैकान्तिकविरुद्धानुमानवत् , तत्र निश्चयसम्भवाद्धमादेवह्नयनुमानवत् , यत्तु प्रत्यक्षं तत्र न संशयादयो निश्चयश्च सम्भवति यथावध्यादिषु, न चावध्यादिषु निश्चयसंभवाद्यभिचार इति वाच्यम् । संकेतस्मरणादिपूर्वकत्वे सतीति विशेषणात् , न चावध्यादीनां मनोनिमित्तकत्वात्परोक्षता स्यादिति वाच्यम् , मनःपर्याप्त्याऽपर्याप्तानां मनुष्यदेवादीनामवधिज्ञा
नश्रवणेन तेषां मनोनिमित्तकत्वाभावादिति ॥ 10 तत्र पञ्चविधज्ञानमध्ये किं वा पारमार्थिकप्रत्यक्षं किं वा परोक्षमिति शंकायामाह
तत्रावधिमनःपर्यवकेवलानि पारमार्थिकप्रत्यक्षाणि । मतिश्रुते परोक्षे । परोक्षमपि सांव्यवहारिकप्रत्यक्षस्मरणप्रत्यभिज्ञातानुमानागमभेदात् षड्विधम् ॥
तत्रेति, स्पष्टम् । परोक्षस्य प्रकारान्तरेण भेदमाह परोक्षमपीति । अपिशब्दः पुनरर्थे, 15 मतिश्रुतभेदेन द्विविधमपि परोक्षं पुनस्सांव्यवहारिकप्रत्यक्षादिभेदेन षड्विधमिति भावः । समी
चीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलक्षणस्संव्यवहारः, तत्र भवं स एव वा प्रयोजनमस्येति सांव्यवहारिकं तच्च तत्प्रत्यक्षश्च सांव्यवहारिकप्रत्यक्षमिति विग्रहः । बाह्येन्द्रियादिसामग्रीसापेक्षत्वाद्वस्तुतः परोक्षमेवेति परोक्षमध्ये परिगणितमेतत् । अनुमानादिभ्योऽति
रेकेण नियतवर्णाकाराणां प्रतिभासनाच्चानुमानादितो भेदेनोत्कीर्तनम् । सामान्यतो हि 20 स्पष्टत्वं प्रत्यक्षस्य लक्षणं तच्चानुमानाद्याधिक्येन विशेषप्रकाशनं, एतदपेक्षया च पारमार्थिक
प्रत्यक्षस्येवास्यापि प्रत्यक्षत्वम् , गाढान्धकारे मलिनवस्तुसंवेदनमपि संस्थानमात्रे स्पष्टत्वेन प्रत्यक्षमेव । न च स्मृतिप्रत्यभिज्ञादिस्वरूपसंवेदने परोक्षरूपे प्रत्यक्षलक्षणस्यातिव्याप्तिरिति वाच्यम् , स्मृतिप्रत्यभिज्ञानादिस्वरूपसंवेदनस्य परोक्षत्वासम्भवात् , क्षायोपशमिकसंवेदनानां
स्वरूपसंवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः, बहिरर्थग्रहणापेक्षया च 25 विज्ञानानां परोक्षत्वव्यपदेशेन सर्वज्ञानानां स्वरूपे स्पष्टप्रतिभासत्वात्प्रत्यक्षत्वमेवेति ।।
अधुना पारमार्थिकप्रत्यक्षं लक्षयति
अव्यवहितात्मद्रव्यमात्रसमुत्पन्नं ज्ञानं पारमार्थिकप्रत्यक्षम् । तद्विविधं सकलं विकलश्च ॥