________________
न्यायप्रकार
प्रमाणमेदाः ] न्यायप्रकाशसमलङ्कृते
: ३१३: त्वानां परोक्ष एवान्तर्भावान त्रिचतुरादिरूपम् । तत्रानुमानागमौ परोक्षेऽन्तर्गतौ, उपमानं प्रत्यभिज्ञानात्मके परोक्षभेदे अर्थापत्तिरप्यनुमाने, अनुपलब्धेरप्यभावग्राहिकायास्सांव्यवहारिकप्रत्यक्षेऽन्तर्भाव इति भावः । ननु ‘से किं तं पमाणे ? पमाणे चउठिवहे पण्णत्ते । तं जहा, पञ्चक्खे, अणुमाणे, ओवमे, आगमे जहा अणुओगदारे तहा गेयव्यं पमाणं " इत्यागमे प्रमाणस्य चतुर्विधत्वेनोक्तत्वाद् द्वैविध्ये विरोध इति चेत्सत्यं, अनुमानोपमानागमानां परोक्षेऽ 5 न्तर्भावणात्र द्वैविध्यस्योक्तत्वात् । उक्तश्चागमेऽपि “तं समासओ दुविहं पण्णत्तं, तं जहा पच्च. क्खं च परोक्खं च” इति ॥ द्वैविध्यं नामग्राहमाह पारमार्थिकेति । एतच्च विशेषणमुपचरितव्यावहारिकप्रत्यक्षस्य वस्तुतः परोक्षस्य व्युदासाय । इन्द्रियानिन्द्रियादिबाह्यसामग्रीसापेक्षस्य सांव्यवहारिकप्रत्यक्षस्य धूमादग्निज्ञानवद्वस्तुगत्या परोक्षत्वात् । अश्नुते व्याप्नोत्यानित्यक्ष आत्मा, तम्प्रति साक्षाद् यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यवकेवलानि, 10 तेषामेव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद्वर्त्तमानत्वात् । अक्षमिन्द्रियं प्रतिगत.. मिति विग्रहे प्रत्यक्षशब्दस्य यदिन्द्रियमाश्रित्योत्पद्यते तदर्थसाक्षात्कारिज्ञानमर्थः, एतच्चावध्यादावव्याप्तं तस्मादक्षाश्रितत्वं गमनक्रियाया इव गोशब्दस्य व्युत्पत्तिनिमित्तमेव वाच्यम्, प्रवृत्तिनिमित्तं तु गतिक्रियोपलक्षितं गोत्वमिवामाश्रितत्वोपलक्षितसाक्षाग्राह्यग्राहकज्ञानविशेष एव, तच्च प्रवृत्तिनिमित्तं गतिक्रियादिशून्येऽपि गवादिपिण्डविशेष इवाक्षाश्रित- 15 त्वशून्येऽप्यवध्यादावस्त्येवेति न कोऽपि दोषः । पारमार्थिकञ्च तत्प्रत्यक्षश्च पारमार्थिकप्रत्य- . क्षम् , ननु यदिन्द्रियद्वारेण प्रवर्त्तत आत्मनि ज्ञानं तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मना साक्षान्नोपलब्धमिति वाच्यम् , इन्द्रियाणामुपलब्धि प्रति करणतया व्यवधायकत्वास. म्भवात् , न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वान्न साक्षाद्धोक्तेति व्यपदेष्टुं शक्यमिति चेन्मैवम् , आत्मना चक्षुरादिसाद्गुण्यापेक्षणात् , यदा हि चक्षुस्सद्गुणं भवति तदा 20 बाह्यमर्थ स्पष्टं यथावस्थितञ्चोपलभते यदा तु तिमिराश्रुभ्रमणनौयानपित्तादिसंक्षोभदेशदवीयस्त्वाद्यापादितविभ्रमं भवति तदा विपरीतं संशयितं वोपलभते तथा चावश्यमात्माऽर्थोपलब्धौ पराधीनः । तथा चक्षुरादिनोपदर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तदा चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिराद्युपप्लुतं ततोऽयमर्थस्समीचीन इति, तस्माच्चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणाद्वस्तुतस्तत्परोक्षमिति 25
१. न चानभ्यासदशामापन्नस्यैव वस्तुयाथात्म्यावधारणमिन्द्रियसाद्ण्यावधारणपूर्वकं भवतु न स्वभ्यासदशापन्नस्य, तदन्तरेणापि प्रकृष्टाभ्यासबलात् साक्षात्तस्यावबोधादतस्तस्येन्द्रियाधित ज्ञान प्रत्यक्षं स्यादिति वाच्यम्, तत्रापीन्द्रियसाद्गुण्यसापेक्षत्वस्य दुवारत्वात् , अभ्यासप्रकर्षवशाचेन्द्रियसाद्गुण्यस्य झटित्येव निश्चयात् कालसौक्ष्म्यात्तदनुपलब्धेः । अपायमात्रं ह्यवग्रहहापूर्वकं, तत्रेहा विचाररूपा विचारश्चेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः न हीन्द्रिये वस्तुनि वा सम्यगविचारिते सति यज्ज्ञानं तत्समीचीनं भवतीति ॥