________________
: ३१२: तत्त्वन्यायविभाकरे
[ प्रथमकिरणे मेव सर्वत्र लक्ष्यलक्षणभावोऽवसेयः । यथावस्थितार्थपरिच्छेदे च ज्ञानमेव साधकतमं न तु सन्निकर्षादि, साधकतमन्तु यत्र प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिस्तदभावेऽनुत्पत्तिरेव तत्र ततं. यथा कुठार छेदने । न च तथा सन्निकर्षादि. नभसि नयनसन्निकर्ष
सम्भवेऽपि प्रमानुत्पत्तेः, तदभावेऽपि प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणाश्च समुद्भवात् । 5 न च नभसि रूपाभावान प्रमोत्पत्तिरिति वाच्यम् , रूपस्य प्रत्यक्षानुपपत्तिप्रसङ्गात् नहि तत्र रूपमस्ति । न च तदाधारभूते द्रव्ये रूपान्तरमस्तीत्यतो नानुपपत्तिरिति वाच्यम् , त्वयैकत्र व्याप्यवृत्तिसजातीयगुणद्वयानङ्गीकारात् । न चावयवरूपमवयविरूपोपलब्धौ कारणमिति वाच्यम् , त्र्यणुकनिष्ठरूपप्रत्यक्षानुपपत्तेः, व्यणुकरूपस्यानुपलम्भेन सहकारित्वास
म्भवादिति । निर्णयत्वमात्रोक्तौ निर्विकल्पकप्रत्यक्षस्य बौद्धैः प्रामाण्यतयोक्तस्य प्रमाणत्वा10 पत्तिरतो यथार्थनिर्णयत्वमुक्तं, अर्थनिर्णयत्वमात्रस्य विपर्ययानध्यवसायादौ गतत्वेन तद्वार
णाय यथेति, अत एव चानन्तधर्मात्मकवस्तुनिष्ठैकधर्मविषयकज्ञानस्यापि व्युदासोऽनन्तधर्मात्मकवस्तुनिष्ठानन्तधर्मविषयकज्ञानस्यैव यथार्थनिर्णयरूपत्वात् । निर्णयशब्देन च संशयव्युदासः । समग्रेण चार्थोपलब्धिहेतत्वानधिगतार्थगन्तृत्वादीनां परोक्तलक्षणानां व्युदासः।
अर्थोपलब्धिं प्रति परम्परया हेतुत्वेऽञ्जनादीनां प्रमाणत्वापत्तेः, अनन्तरभूतेन्द्रियस्यैव हेतु15 त्व उपयोगात्मकेन्द्रियातिरिक्तस्येन्द्रियस्य प्रमाणत्वासम्भवात् , व्यवधानात् । प्रत्यभिज्ञादावनधिगतार्थगन्तृत्वस्याभावेन प्रमाणत्वानुपपत्तेस्तस्याधिगतार्थगन्तृत्वादिति तात्पर्यम् ॥ तत्र वादिनां भेदे विप्रतिपत्तेस्संख्यानियममाह
तविविधं पारमार्थिकप्रत्यक्षं परोक्षश्चेति ॥ - तदिति । प्रमाणमित्यर्थः । सर्वस्य वाक्यस्य सावधारणत्वात्प्रमाणं द्विविधमेव, न 20 त्वेकविधं प्रत्यक्षात्मकमेव चार्वाकवत् । स्वेष्टस्यानुमानमन्तरा साधयितुमशक्यत्वात् , वचनसङ्केतग्रहादिकं विना परं प्रति बोधयितुमशक्यत्वाचापरोदितानामनुमानादीनां सम्भवत्प्रमाण
१. फलायोगव्यवच्छिन्नं कारणं करणमिति भावः । २. यथा घटस्य प्रत्यक्षे जननीये विषयातिरिक्तं रूपं कारणमपेक्षितं तथा रूपस्य प्रत्यक्षे जननीये विषयातिरिक्तं रूपमपेक्षणीयं स्यात्तथा च घटे रूपप्रत्यक्षे रूपान्तरसत्त्वाभ्युपगमस्त्वया कर्तुं न शक्यते, एकस्मिन् द्रव्ये व्याप्यवृत्तेस्सजातीयस्य गुणद्वयस्यानभ्युपगमेन तव सिद्धान्तव्याघात इति भावः, तैरव्याप्यवृत्तिसंयोगद्वयाद्यभ्युपगमेन व्याप्यवृत्तीत्युक्तं, स्वाधिकरणावृत्तिस्वाभावकत्वं तदर्थः। नास्ति हि रूपाधिकरणे रूपाभावः । घटे व्याप्यवृत्तिरूपरसयोरभ्युपगमात्सजातीयेति, तत्त्वञ्च गुणत्वव्याप्यजात्या, तथा च रूपरसयोस्तथा साजात्याभावान्न क्षतिः ॥ ३.निर्णयत्वं हि निश्चयत्वं संशयभिन्नज्ञानत्वं वा. तच्च बौद्धाभ्युपगते निर्विकल्पके प्रकारतादिरहिते वर्तत इति भवत्यतिव्याप्तिरतो यथार्थनिर्णयत्वमुक्तं. तथा च प्रकारतादिविशिष्टमिदं न निष्प्रकारके निर्विकल्पकेऽस्तीति भावः । नन्वर्थनिर्णयत्वमात्रोक्तावपि तद्वारणसम्भवाद्यथेति पदं निरर्थकमित्याशंक्याहार्थनिर्णयत्वमात्रस्येति । तथा च यद्वस्तु येनैव प्रकारेण वर्तते तेनैव प्रकारेण तनिश्चयो यथार्थनिर्णयः, तेन न्यूनप्रकारकत्वे विपरीतप्रकारकत्वे वा न प्रमाणत्वमिति भावः ॥