________________
प्रमाणानि ]
न्यायप्रकाशसमलते हेतोरसिद्धता, अचेतनत्वेन घटादेरिव स्वव्यवसितावकरणत्वस्य सिद्धत्वात् , स्वनिश्चिताव. करणत्वादेव च कुम्भादेरिव परव्यवसितावकरणत्वम् । न च यथा काष्ठछेदादिकं फलं. कुठारादिकरणजन्यं तथैवार्थव्यवसितेरपि सन्निकर्ष एव करणं न प्रमाता करणं कर्तृत्वान्न प्रमेयं कर्मत्वान्न वा ज्ञानं कार्यत्वादिति वाच्यम् , सन्निकर्षस्य करणत्वानुपपत्तेः, तद्भिन्नस्य भावेन्द्रियविशेषस्यैव करणत्वात् न च परव्यवसित्यकारणत्वसाधकस्वब्यवसित्यकरणत्वरूपहेतोः 5 प्रदीपे व्यभिचारः, स्वनिश्चितावकरणस्यापि तस्य घटादिनिश्चिती करणत्वात् प्रतीयते हि प्रदीपेन पन्थानं पश्याम इत्यादौ करणत्वमिति वाच्यम् , प्रदीपस्य चक्षुर्मनोरूपमुख्यकारणसहकारितयैव पदार्थपरिच्छेदे करणत्वेन मुख्यतया करणत्वासम्भवात् , उपचारतः करणत्वे च व्यभिचाराभावात्तस्योपचारतः पदार्थपरिच्छेदकत्ववत्स्वपरिच्छेदेऽपि करणत्वात् । न च चक्षुरादौ व्यभिचारः, भावेन्द्रियोपकरणभूतद्रव्येन्द्रियस्य चक्षुरादेरुपचारेण करणत्वात् 10 लब्धेरपि उपयोगात्मकमुख्यकरणकारणत्वेनोपचरितमेव कारणत्वमिति दिक् ॥ ननु किं तत्प्रमाणमित्यत्राह
__ यथार्थनिर्णयः प्रमाणम् ॥ यथार्थेति । अत्रार्थपदेन ज्ञानं घटादिविषयश्च विवक्षितः, यथावस्थितत्वेनार्थो निर्णीयतेऽनेनेति यथार्थनिर्णयः, यथावस्थितस्वपररूपार्थपरिच्छेदकं ज्ञानमित्यर्थः, लक्षणश्च 15 यथावस्थितार्थपरिच्छेदकज्ञानत्वं, लक्ष्यश्च प्रमाणम् । यद्यपि प्रमाणशब्दस्य सर्वकारकैर्भावेन च व्युत्पत्तिर्भवति तया च क्रमेणाऽऽत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः प्रमाणशब्दवाच्या भवन्ति तथापीह परीक्षाक्षमत्वेन ज्ञानमेवाधिक्रियते, इतरेषां परीक्षाया ज्ञानपूर्वकत्वात् । येन चार्थ परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रमातारः प्रवर्तन्ते तदेव .. ज्ञानमिहात्मना सह धर्मितयाऽभिन्नमपि प्रमीयतेऽऽनेनेति व्युत्पत्या धर्मरूपतया व्यति. 20 रिक्तं प्रमाणमुच्यते । तत्र विप्रतिपन्नान् तीर्थान्तरीयान् प्रति प्रमाणोद्देशेन लक्षणं विधेयम् , यद्भवतामस्माकश्च प्रमाणतया प्रसिद्धं तद्यथावस्थितार्थपरिच्छेदकं ज्ञानमिति । यदाऽव्युत्पन्नमतीन् प्रति लक्षणं तदा प्रतिप्राणि यस्य कस्यचिद्यथार्थनिर्णयस्य प्रसिद्धत्वेन योऽयं भवतां यथार्थनिर्णयः प्रसिद्धस्तत्प्रमाणमिति बुद्ध्यतामिति प्रमाणं विधेयम् । प्रमाणप्रमेयापलापिनः प्रत्युभयं विधेयम् , स्वदर्शनश्रद्धालून् प्रति त्वनुवाद्यमिति । एव- 25
१. अत्रानुमानं सनिकर्षादिर्न स्वनिश्चयासाधारणकारणमचेतनत्वाद्धटादिवदिति ॥ २. प्रयोगः सनिकर्षादिर्न परनिश्चयासाधारणकारणं स्वनिश्चितावकरणत्वाद्धटादिवदिति ॥ यथार्थनिश्चये सन्निकर्षस्य साधकतमत्वमाशंकते न च यथेति ॥ ३. द्रव्यार्थादेशेनेत्यर्थः । ४. पर्यायनयादेशेनेत्यर्थः ।..