________________
:३१०: तस्वन्यायविभाकरे
[ प्रथमकिरणे ज्ञानस्येति भावः । मैतिश्रुतयोस्स्वाम्येकत्वान्नानाजीवापेक्षया द्वयोस्सार्वदिकत्वादेकजीवापेक्षया चोभयोरपि निरन्तरसातिरेकषक्षष्टिसागरोपमस्थितिकत्वादिन्द्रियमनसोस्स्वस्वावरणक्षयोपशमस्य च तुल्यत्वात् सर्वद्रव्यादिविषयकत्वात्परोक्षत्वान्मतिश्रुतसत्त्व एव चावध्यादीनां
प्राप्यमाणत्वाच्च तयोः प्रथममुपादानं, तत्रापि श्रुतस्य मतिपूर्वकत्वात् इन्द्रियानिन्द्रियनिमि5 त्तकस्य सर्वस्यैव मतिज्ञानत्वात्परोपदेशत्वागमवचनत्वरूपविशिष्टतामादायैव श्रुतस्य पार्थक्य
वर्णनेन मतिविशेषत्वात्प्राधान्येन मतेरुपन्यासस्ततश्रुतस्य । ततो मतिश्रुताभ्यां नानाजीवापेक्षयैकजीवापेक्षया च कालसाधान्मतिश्रुतयोमिथ्यात्वोदयेऽज्ञानवदवधेरपि तथात्वात्स्वामिसाधात्कस्यचित्त्रयाणाममीषां युगपल्लाभसम्भवेन लाभसाधर्म्याच्च ततोऽवधेरुपम्यासः, अवधिमनःपर्यवयोश्छद्मस्थेनाप्यमानत्वात्पुद्गलमात्रविषयकत्वात्क्षायोपशमिकभाववृत्तित्वात् प्रत्य10 क्षत्वादिसाम्याच्च ततो मनःपर्यवस्योपन्यासः, उत्तमत्वाद्विशिष्टचारित्रस्वामिकत्वादपरज्ञानावसानलाभाच्चान्ते केवलज्ञानस्योपन्यासो बोध्यः ॥ एतान्येव पञ्च प्रमाणानीत्याह
एतान्येव प्रमाणानि ॥ एतान्येवेति । मत्यादिज्ञानान्येवेत्यर्थः, प्रमाणानि हेयोपादेयवस्तुतिरस्कारस्वीका15 रक्षमाणीत्यर्थः, तथा च यतः प्रमाणानि हेयोपादेयवस्तुतिरस्कारस्वीकारक्षमाणि अतो
ज्ञानान्येव प्रमाणानि न सन्निकर्षाद्यज्ञानरूपाणि, एवञ्च प्रमाणं ज्ञानमेव हेयोपादेयवस्तुतिरस्कारस्वीकारक्षमत्वाद्यत्तु न ज्ञानं न तद्धेयोपादेयवस्तुतिरस्कारस्वीकारसमर्थं यथा घटादि, हेयानां तिरस्कारायोपादेयानां ग्रहणाय च प्रामाणिकैः प्रमाणानामेव प्रार्थ्यमान
त्वान्न साधनासिद्धिः, तच्च न सन्निकर्षादिकं भवितुमर्हति, घटादेरचेतनरूपस्य स्वार्थव्यव20 सितिं प्रति यथा साधकतमत्वाभावान्न प्रमाणत्वं तथा सन्निकर्षादेरपि, प्रयोगश्च सन्निक.
र्षादिर्न प्रमाणव्यवहार्यः स्वार्थनिश्चयासाधकतमत्वाद् यन्नैवं तन्नैवं यथा घटादिरिति न च
१. मतिज्ञानस्यैवाऽऽभिनिबोधिकज्ञानमिति नामान्तरम् , अभिमुखं योग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेणावबुध्यते स परिणामविशेषो ज्ञानापरपर्याय आभिनिबोधिकम् । तद् द्विविधं श्रुतनिश्रितमश्रुतनिश्रितश्चेति । शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्येव यदुपजायते मतिज्ञानं तच्छतनिधितमवग्रहादि। सर्वथा शास्त्रसंस्पर्शरहितस्य तथातथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानं यदुपजायते तदश्रुतनिश्रितं, औत्पातिकीवैनयिकीकर्मजापारिणामिकीभेदभिन्नमिति ।। २. मतिश्रुते अप्राप्यावध्यादीनामप्राप्यमाणत्वादिति भावः ॥ ३. पूर्वमवग्रहादिमतिज्ञानप्रवृत्तिं विना श्रतप्रवृत्तेरभावादिति भावः ॥ ४. अतीतानागतवर्तमाननिःशेषज्ञयस्वरूपावभासित्वादुत्तमत्वमिति भावः ॥