________________
अथ द्वितीयो भागः
प्रथमः किरणः अथावसरप्राप्तं सम्यग्ज्ञानं विभजते
मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ॥ मतीति । मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानमित्यर्थः । ज्ञानानीतिबहुवचनमेकैकस्मिन् ज्ञानताख्यापनाय । ज्ञानं चात्मनस्स्वपरावभासकोऽसाधारणो गुणः कथश्चिदभिन्नः कथश्चिद्भिन्नंश्च । स चाम्बुधरपटलपरिमुक्तस्य दिनमणेरिवापास्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशभाग्भवति । सकलघातिकेवलज्ञानावरणेन कास्न्येन ज्ञानस्यावरणासम्भवात् तदानीं योऽयं मन्दप्रकाशः स केवलज्ञानावरणावृतस्य भवति 10 तस्यैव भेदा मत्यादयश्चत्वारः। तादृशे मन्दप्रकाशे केवलज्ञानावरणस्यैव हेतुत्वं, स्पष्टपकाशप्रतिबन्धकस्यापि तस्य तत्र हेतुत्वात् , दृष्टश्चोत्कटेऽभ्राद्यावरणे स्पष्टप्रकाशप्रतिबन्धकत्वं मन्दप्रकाशजनकत्वञ्च । अत एव न मतिज्ञानावरणक्षयादिना मतिज्ञानाद्युत्पादनप्रसङ्गः । सोऽयं ज्ञानस्वभावः केवलज्ञानावरणेनावृतोऽपि अनन्ततमभागावशिष्टोऽनावृत एव सामान्यत एकोऽपि अनन्तपर्यायकिर्मीरितमूतिर्मन्दप्रकाशनामधेयो भवति । स चापान्तराला• 15 वस्थितमतिज्ञानाद्यावरणक्षयोपशमसम्पादितं नानात्वं भजते, घनपटलाच्छन्नरवेर्मन्दप्रकाश इवान्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् । न च केवलज्ञानावरणेन बलीयसाऽऽवरीतुमशः क्यस्यानन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना नावरणसम्भव इति वाच्यम् , कर्मणस्वावार्यावारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात्तस्य च मतिज्ञानावरणादिप्रकृतिष्वप्यविशिष्टत्वात् । तथा च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुताव- 20 धिमनःपर्यवभेदाच्चतुर्विधं क्षायोपशमिकं ज्ञानं पञ्चमश्च क्षायिकं केवलज्ञानमिति पञ्च प्रकारा
१. जीवेन ज्ञानस्यात्यन्तभेदेऽन्यज्ञानेनान्यस्य विषयपरिच्छेदाभाववत् स्वात्मनोऽपि तन्न स्याद्भिन्नत्वाविशेषात् । न च समवायेन यत्रैव ज्ञानं समवेतं तत्रैव भवति विषयपरिच्छेद इति वाच्यम्, समवायस्यैकत्वेन नित्यत्वेन च वृत्तेरविशेषात् । सर्वथा चाभेदे गुणग्रहणेन गुणिनोऽपि गृहीतत्वाद्धरिततरुतरुण शाखाविसररन्ध्रोदरान्तरतः किमपि शुक्लं पश्यन् किमियं पताका किमियं बलाकेत्येवं प्रतिनियतगुणिविषयकसंशयो न स्यादिति भावः ॥