________________
: ३१८ :
तत्त्वन्यायविभाकरे
तद्वानेव सर्वज्ञः ॥
1
तद्वानेवेति । केवलज्ञानवानेवेत्यर्थः । इदञ्च केवलज्ञानस्य कथञ्चिदात्मव्यतिरेकमभ्युपेत्योक्तं तथा च कथञ्चिद्भेदाभेदसम्बन्धेन केवलज्ञानवान्सर्वज्ञ इत्यर्थः | आत्मपर्याय.. केवलज्ञानं, आत्मा च परिच्छिन्नपरिमाणः, यो हि यस्य धर्मस्स तत्रैव वर्तते यथा घटे 5 रूपम्, आत्मन्येव संवेदनाच्चात्मस्थं तत्, तथा चात्मस्थमेव विषयं परिच्छिनत्ति न विषयं प्राप्य, तस्य ज्ञेयदेशे गमनासम्भवात्, गमने चात्मनो निस्स्वभावत्वप्रसङ्गः स्यात्, तत्स्वभावत्वादात्मनः, आत्मधर्मत्वहान्यापत्तिश्च, आत्मविरहेऽपि भावात् । तथा केवलज्ञानं हि सकलज्ञान मुच्यते अलोकस्यानन्तत्वेन गमनतस्सकलोऽलोको ज्ञातुमशक्य इति । अत एव तद्वानित्यत्र नित्ययोगे मतुबू यः । सर्वज्ञ इति, अर्हदादिरित्यर्थः एवशब्दो भिन्नक्रमः अर्हन् श्रीवर्ध10 मानादिरेव तद्वान्निर्दोषत्वात्, नान्यः कपिलादिः प्रमाणविरुद्ध भाषित्वेन निर्दोषत्वासिद्धेस्तथा चार्हन् मोक्षसंसारतत्कारणेषु निर्दोषस्तत्र प्रमाणाविरोधिवाक्यत्वाद्यथा कचिद् व्याध्युपशमे वैद्यः न चासिद्धिः, अर्हन् मोक्ष संसारतत्कारणेषु प्रमाणाविरोधिवचनवान् तत्र प्रमाणाबाध्यमानाभिमततत्तत्वात्, यस्य यत्राभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र प्रमाणाविरोधिवाक्, यथा रोगस्वास्थ्ये तत्कारणतत्त्वे भिषग्वर इत्यनुमानेन तत्सिद्धेरिति ॥
[ प्रथमकिरणे
15
विकलस्य प्रकारं दर्शयति
अवधिमनः पर्यवौ तु तत्तदावरणक्षयोपशमजन्यत्वाद्विकलौ ||
अवधीति । तत्तदिति, अवधिज्ञानावरणस्य मनः पर्यवज्ञानावरणस्य च यः क्षयोपशमस्तज्जन्यत्वादित्यर्थः । अनयोर्मूर्त्तद्रव्यविषयकत्वेन मनोद्रव्यविषयकत्वेन च न सर्वविषयकत्वमिति विकलत्वम् । क्षयोपशमजन्यत्वादित्यनेन केवलज्ञानभिन्नता केवल्यवृत्तित्वच 20 सूचितम्, केवलज्ञानस्य क्षायिकत्वात् केवलिनः क्षायिकभाववत्वाच्च । निरन्तरं तस्य स्वभावतः केवलज्ञानदर्शनोपयोगव्यापृतत्वेनेतरोपयोगासम्भवाच्चेति ||
तत्रावधि लक्षयति
इन्द्रियसंयमनिरपेक्षो रूपिद्रव्यविषयकस्साक्षात्कारोऽवधिः । स द्विविधो भवजन्यो गुणजन्यश्चेति । भवो जन्म, तस्माज्जन्यो यथा सुरना25 रकाणाम्, गुणस्सम्यग्दर्शनादिः, तज्जन्यो यथा नरतिरश्चाम् ॥
इन्द्रियेति, यद्विषयकज्ञानत्वावच्छिन्नं प्रति नियमेनेन्द्रियाणां संयमस्य चापेक्षा
१. गमनं हि स्वदेशपरित्यागपूर्वकमपरदेशप्राप्तिः, तथा च ज्ञानस्यात्मदेशं विहाय ज्ञेयदेशप्राप्तौ निःस्वभावत्वमात्मनो भवेत्, स्याच्च ज्ञेयस्यात्मरूपत्वं एवञ्चात्मधर्मत्वं केवलस्य न स्यात्, आत्मविरहेऽपि भावादिति भावः ॥