SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ :३०६ : तत्त्वन्यायविभाकरे [ दशमकिरणे - प्रत्येकबुद्धसिद्धानाचष्टे एकनिमित्तमात्रदर्शनजन्यवैराग्यास्तत्कालसम्प्राप्तरत्नत्रया मुक्ताः प्रत्येकबुद्धसिद्धाः । यथा करकण्डुद्विमुखनमिराजर्षिप्रभृतयः ॥ एकेति । ये बाह्यप्रत्ययमपेक्ष्य बुद्ध्यन्ते ते प्रत्येकबुद्धास्तथाभूतास्सन्तो ये सिद्धास्ते 5 प्रत्येकबुद्धसिद्धा इति भावः, निदर्शनमाह यथेति । बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वा दीनां बोधिः । एषां जघन्यत उपधिर्द्विविध उत्कर्षेण नवविधः प्रावरणवर्जः, तथा पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि, उत्कृष्टतः किञ्चिन्न्यूनानि दशपूर्वाणि, लिङ्गं तेभ्यः कदाचिद्देवता प्रयच्छति कदाचिच्च लिङ्गरहिता अपि भवन्ति । स्वयम्बुद्धसिद्धानाह10. निमित्तदर्शनमन्तरा बोधप्राप्तिपूर्वकं केबलिनो मुक्तास्वयम्बुद्धसिद्धाः । यथा कपिलादयः॥ निमित्तेति । स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेण स्वयमेव निजजातिस्मरणादिना बुद्धाः, ते च तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च, एषामुपधिर्वादशविध एव पात्रादिकः । पूर्वाधीतं श्रुतश्च भवति न वा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति, गुरुसन्निधिं गत्वा वा 15 प्रतिपद्यन्ते, यदि चैकाकिनो विहरणसमर्था इच्छा च तेषां तथारूपा जायते तत एका किनो विहरन्ति, अन्यथा गच्छवासेऽवतिष्ठन्ते । अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्दुरुसन्निधिं गत्वा लिङ्ग प्रतिपद्यन्ते गच्छश्चावश्यं न मुञ्चन्ति, एतत्सर्व तीर्थकरव्यतिरिक्तानां बोध्यम् , दृष्टान्तमाह यथेति ।। बुद्धबोधितसिद्धानाह20 उपदेशजन्यप्रतिबोधा अवाप्तरत्नत्रया मुक्ता बुद्धबोधितसिद्धाः । यथा जम्बूस्वामिप्रभृतयः ॥ उपदेशेति । बुबैराचार्यादिभिर्बोधितास्सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धा इति भावः दृष्टान्तं दर्शयति यथेति ॥ एकसिद्धानाह25 इतरानवाप्तमुक्तिकैकसमयावाप्तमुक्तिका एकसिद्धाः। यथा श्रीमहावीर
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy