________________
श्रद्धोपसंहारः ] न्यायप्रकाशसमलङ्कृते ।
: ३०७ स्वामिनः । एकस्मिन् समयेऽनेकैस्सह मुक्ता अनेकसिद्धाः । यथा ऋषभदेवाद्याः॥ इति मोक्षतत्त्वनिरूपणम् ॥
इतरेति । एकस्मिन्नेकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धा इत्यर्थः, निदर्शनमाह यथेति । अनेकसिद्धानाह एकस्मिन्निति । एकस्मिन् समयेऽनेके सिद्धा अनेकसिद्धा इत्यर्थः । दृष्टान्तमाह-यथेति । मोक्षतत्त्वं निगमयति इतीति ॥ मुक्त्युपायभूतां सम्यक्श्रद्धा निगमयति
सम्यश्रद्धा यथाशास्त्रं सविभागा सलक्षणा।
संक्षेपेण समाख्याता स्यान्मोदाय विपश्चिताम् ॥ सम्यकश्रद्धेति, प्रशंसाथै सम्यगिति निपातस्तत्त्वश्च श्रद्धायां यथावस्थितार्थपरिच्छेदित्वं परापेक्षामन्तरोपजायमानत्वं वा, अथवा समश्चति सर्वान् द्रव्यपर्यायान् व्याप्नो- 10 तीति सम्यक् द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, सा चासौ श्रद्धा च सम्यक्श्रद्धा अविपरीतार्थप्राहिणी रुचिरित्यर्थः । समाख्यातेत्यप्रेतर्नेनान्वयः । कथं समाख्यातेत्यत्राह सविभागा सलक्षणेति लक्षणविभागाभ्यां निरूपितेति भावः । निरूपणेऽस्मिन् श्रोतृजनग्राह्यतासम्पादनाय प्रामाणिकत्वमस्याविष्करोति, यथाशास्त्रमिति । शास्त्रमनुसृत्यैव प्रोक्ता न तु कल्पनयेति भावः । 15 ग्रन्थस्यास्य प्रणयने हेतुं दर्शयति संक्षेपेणेति । आगमानामतिविस्तृतत्वेन व्युत्पन्नकल्पानां सुगमतया आगमार्थबोधार्थमयं प्रयास इति भावः । तदिदं प्ररूपणं शास्त्रानुसारित्वात्सङ्ग्रहरूपत्वाच्च विपश्चितां विवेचनाचतुराणां परित्यक्तमनोमालिन्यानां मोदायानन्दाय भवेदेवेत्याशयमाह स्यान्मोदाय विपश्चितामिति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश व्याख्यायां मोक्षनिरूपणनामा दशमः किरणः समाप्तः
समाप्तोऽयं सम्यक्श्रद्धाख्यः प्रथमो भागः ॥
१. उस्कृष्टतोऽष्टोत्तरशतसंख्या वेदितव्या ॥