________________
स्त्रीलिङ्गसिद्धाः ]
न्यायप्रकाशसमलङ्कृते रत्नत्रयेति । स्पष्टम् । निदर्शनमाह यथेति । शास्त्रोदितमूलोत्तरगुणयुक्ता न तद्गुणरहिताः केवलं भिक्षाचरा इति भावः । तत्र गृहिलिङ्ग एकसमय उत्कृष्टतश्चत्वारः अन्यलिङ्गे दश, स्वलिङ्गेऽष्टशतं सिद्ध्यन्ति। निरन्तरश्च स्वलिङ्गेऽष्टौ समयाः अन्यलिङ्गे चत्वारस्समयाः, गृहिलिङ्गे द्वौ समयौ । अन्तरन्तु सर्वेष्वपि जघन्यत एकस्समयः, उत्कर्षेणान्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्षम् । गृहिलिङ्गसिद्धास्सर्व- 5 स्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्वलिङ्गसिद्धा असंख्येयगुणा इति ॥
अथ त्रीलिङ्गसिद्धानाचष्टे
सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्स्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमगणधरादयः। कृत्स्नकर्मक्षयान्नपुंसकशरीरान्मुक्ता नपुंस- 11 कलिङ्गसिद्धाः । यथा गाङ्गेयः॥
सम्यगिति । अत्र स्त्रीलिङ्गादिकं शरीरनिर्वृत्तिरूपं न तु वेदो नेपथ्यं वा, वेदसत्त्वे सिद्धत्वाभावात् । स्पष्टं मूलं, निदर्शनमाह यथेति । पुरुषलिङ्गसिद्धानाह रत्नत्रयेणेति स्पष्टम् । दृष्टान्तमाह-यथेति । नपुंसकलिङ्गसिद्धानाह कृत्स्नेति स्पष्टम् , निदर्शनमाह यथेति ।।
१. मूले सम्यग्दर्शनादिमहिम्नेति पदेन स्त्रीणामपि प्रवचनार्थाभिरुचिः षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं सप्तदशविधसंयमस्याकलङ्कतया धारणं दुर्धरब्रह्मचर्यपालनं मासक्षपणादितपोऽनुष्ठानञ्च वर्तत इति सूचितम् । न च स्त्रीणां रत्नत्रयसम्भवेऽपि न तत्सम्भवमात्रं मुक्तिप्रापकं, किन्तु प्रकर्षप्राप्तमन्यथा दीक्षानन्तरमेव सर्वेषां मुक्तिपदप्राप्तिप्रसक्तेः, तत्प्रकर्षश्च स्त्रीणामसम्भवीति वाच्यम् , तासां तत्प्रकर्षासम्भव. ग्राहकप्रमाणाभावात् । न च स्वभावत एव स्त्रीत्वेन रत्नत्रयप्रकर्षों विरुद्धयते, आतपेन छायेवेति वाच्यम्, अदृष्टेन सह विरोधावधारणासम्भवात्, यस्मादनन्तरं मोक्षपदप्राप्तिस्स हि रत्नत्रयप्रकर्षः, स चायोग्यवस्था चरमसमये, अयोग्यवस्था चास्मादृशामप्रत्यक्षेति । न च सर्वोत्कृष्टपदप्राप्तिस्सर्वोत्कृष्टाध्यवसायेन भवति, सर्वोत्कृष्टञ्च दुःखस्थानं सुखस्थानञ्च, सर्वोत्कृष्टदुःखस्थाने सप्तमनरकपृथिव्यां स्त्रीणां गमनं निषिद्धं शास्त्रे, तासां तथाविधाध्यवसायविरहात् अत एव चानुमीयते तासामुत्कृष्टाध्यवसायविरहात्सर्वोत्कृष्टसुखस्थानं निर्वाण नास्तीति वाच्यम् , स्त्रीणां निःश्रेयसं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावनिश्चायकप्रमाणाभावात् , नहि भूमि-.. कर्षणादिकं कर्तुमशक्नुवतश्शास्त्रावगाहनेऽपि सामर्थ्याभावो निश्चेतुं पार्यते, प्रत्यक्षविरोधात् । न च सम्मूर्च्छिमादिषूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्ट इत्यत्रापि तथानुमीयत इति वाच्यम् , बहिर्व्याप्तिमात्रेण हेतोर्गमकत्वाभावात् , अन्ताप्या हि गमकः, सा च प्रतिबन्धबलासिद्धयति न चात्र सोऽस्ति, सप्तमपृथिवीगमनस्य निर्वाणगमनहेतुत्वाभावात् , चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनाच्च, सम्मूछिमादीनान्तु भवस्वाभाव्यादेव यथावत्सम्यग्दशर्नादिप्रतिपत्त्यसंभवेन निर्वाणगमनाभावः । भुजपरिसर्पपक्षिचतुष्पदोरगाणां यथाक्रममधो यावद् द्वितीयतृतीयचतुर्थपञ्चमपृथिवीगमनेऽप्यूचं सर्वेषामुत्कर्षतो यावत्सहस्रारं गमनात् नाधोगतिविषये मनोवीर्यपरिणतिवैषम्ये ऊर्दुगतावपि तद्वैषम्यमनुमातुं शक्यत इति ॥