________________
तस्वम्यायविभाकरे
[ दशमांकरणे अथ गृहिलिङ्गसिद्धानाह
पूर्वभवाऽऽसेवितसर्वविरतिसामर्थ्यजन्यकेवलज्ञाना ज्ञानप्राप्त्यूर्व बहुलायुषोऽभावाद्गृहस्थावस्थायामेवान्तमुहूर्ताभ्यन्तरे मुक्ता गृहिलिङ्गसिद्धाः । यथा भरतचक्रीत्युच्यते ॥ __... पूर्वभवेति । लिङ्गं त्रिविधं पुंस्त्रीनपुंसकभेदात् , अथवा द्विविधं द्रव्यभावभेदात् । तत्र द्रव्यलिङ्ग त्रिविधं गृहिलिङ्गमन्यलिङ्गं स्वलिङ्गश्चेति, एतत्सर्वापेक्षया क्रमेण विचार्यते तत्र प्रथमं गृहिलिङ्ग वक्ति पूर्वेत्यादिना | गृहिणां लिङ्गं दीर्घकेशकच्छबन्धादि गृहिलिङ्गम् । भाव. लिङ्ग श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि तेषु च वर्तमाननयचिन्तया किञ्चिदनुवर्तते किश्चि
निवर्तते क्षायिकसम्यक्त्वमनुवर्तते श्रुतचरणे तु निवर्तेते न तद्विना कस्यचित्सिद्धत्वमि10 त्यभिप्रेत्याव्यवहितप्राग्जन्मनि तददर्शनेऽपि तत्पूर्वजन्मापेक्षया द्रव्यचारित्रसत्त्वमेतज्ज
न्मनि च ज्ञानसत्त्वं सूचयनत्र गृहिलिङ्गसिद्धत्वं व्याख्यत् । दृष्टान्तमाह यथेति । केवलज्ञानोत्पत्त्यपेक्षया निदर्शनमिदं, उत्पन्नकेवलानामवश्यं मोक्षनियमात् । अन्यथा केवलप्राप्त्यनन्तरं देवार्पितसाधुद्रव्यलिङ्गस्य धारणपूर्वकं विहरणेन भव्यप्रतिबोधस्य शास्त्रे श्रुतस्य विरोधापत्तेः, अत एवोच्यत इत्युक्तम् । अत्र निरुपचरितविदर्शनं तु मरुदेवीप्रभृतयः ।।
अन्यलिङ्गसिद्धानाह--
भवान्तराऽऽसेवितसर्वविरतिजन्यकेवलज्ञाना अल्पायुष्कास्सन्तस्तापसादि लिङ्गेनान्तर्मुहूर्तान्तरे मुक्ता अन्यलिङ्गसिद्धाः । यथा वल्कलचोरी ॥
भवान्तरेति । आदिना भौतपरिव्राजकादितीर्थान्तरीयलिङ्ग ग्राह्यम् । स्पष्टं । दृष्टान्तमाह 20 यथेति । प्रसन्नचन्द्रर्षेर्धाताऽयं स्वपितुस्समीपे वसन वृक्षत्वगादिपरिवसनो गुणनिष्पन्नाभि
धानः पितुस्तुम्बी प्रतिलेख्यमानां कदाचित्समीक्ष्य समुत्पन्नजातिस्मृतिः पूर्वभवासेवितसर्वविरतिमहिनाऽत्र समधिगतकेवलज्ञानो मुक्ति तल्लिङ्ग एव प्रपन्न इति तस्यान्यलिङ्गसिद्धत्वं, भावापेक्षया स्वलिङ्गसिद्धत्वश्व विज्ञेयम् ॥
स्वलिङ्गसिद्धानाह25 रत्नत्रयवन्तो रजोहरणादिलिङ्गेन युक्ता मुक्तास्वलिङ्गसिद्धाः ।
यथा साधवः॥