________________
अल्पबहुत्वद्वारम् ]
म्यायप्रकाशसमलङ्कृते
: ३०१ :
कतमस्मिन् वेदे सिद्धा अल्पाः कतमस्मिंश्च बहव इति विचारोऽल्पबहुत्वद्वारम् । नपुंसके स्तोकाः स्त्रीपुरुषयोः क्रमतः संख्येयगुणा विज्ञेयाः ॥
कतमस्मिन्निति । पुंस्त्रीनपुंसकभेदभिन्ने वेदे कुत्रात्पाः कुत्र वा बहव इत्याशङ्कायां यो विचारस्तदल्पबहुत्वद्वारमित्यर्थः, यद्यपि सिद्धानां पूर्वमवेदत्वमुक्तं तथा चायं विचारो न सम्भवति तथाप्यव्यवहितपूर्वनयापेक्षयाऽयं विचारो बोध्यः । उत्तरयति नपुंसक इति 5 नपुंसके सर्वस्तोकाः, स्त्रीवेदे संख्येयगुणास्तेभ्योऽपि पुरुषसिद्धास्संख्येयगुणा इत्यर्थः । पुरुषाणामष्टशतं स्त्रीणां विंशतिदेश नपुंसकानाम्, इद ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं बोध्यम्, ये च पुरुषेभ्य उद्धृताः स्त्रियो नपुंसका वा जायन्ते ये च स्त्रीभ्य उद्धृताः पुरुषा नपुंसका वा जायन्ते ये तु नपुंसकेभ्यः उद्धृता नपुंसकाः पुरुषास्त्रियो वा जायन्तेऽष्टस्वेतेषु भङ्गेषु प्रत्येकं दश दश भवन्तीति भावः । अत्र पुनस्ते 10 सिद्धा अव्यवहितपूर्व पर्यायनयावलम्बनेन क्षेत्रकालगतिलिङ्गतीर्थचारित्रबुद्धज्ञानावगाहान्तरसंख्याल्पबहुत्वैर्विचार्यन्ते, तत्र तीर्थलिङ्गबुद्धद्वाराण्याश्रित्य मूलकदेवानुपदं विवेचयति शेषापेक्षया तूच्यते क्षेत्रतस्सार्धद्वितीयद्वीपसमुद्रद्वयलक्षणे मनुष्यक्षेत्रे तिर्यग्लोके सिद्धत्वं लभते जन्मसंहरणापेक्षया, अधोलोकेऽधोलौकिकेषु ग्रामेषु, ऊर्ध्वलोके तु पाण्डुकवनादौ, तीर्थकृतः पुनः पञ्चदशसु कर्मभूमिषु न शेषासु, व्याघातासम्भवादिति । कालतः - उत्सर्पिण्यां 15 जन्माङ्गीकृत्य द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमनन्तु तृतीयचतुर्थयोरेव अवसर्पियान्तु तृतीयचतुर्थ पञ्चमारकेषु सिद्ध्यति, केवलं चतुर्थे जातः पञ्चमे सिद्ध्यति, न तु मे जातः पञ्चमे सिद्ध्यति तत्र जातस्य सर्वथा सिद्ध्यनर्हत्वात् व्याघातापेक्षया तु त्रिष्वप्युत्सर्पिण्यादिषु सिद्ध्यति । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्या जन्म सिद्धिगमनं च सुषमेदुष्षमादुष्षम सुषमारूपयोरेवारकयोर्वेदितव्यम् । गतित: -- मनुष्यगतावेव 20 न शेषासु प्रोक्तमेवेदं मूले । व्यवहितप्राक्तनपर्यायनयाङ्गीकारेण तु सामान्यतश्चतसृभ्योऽपि गतिभ्यः । चारित्रद्वारमाश्रित्य पूर्वमेवोक्तम् । ज्ञानद्वारापेक्षयापि तथैव । अवगाहनात :-- उत्कर्षेण पञ्चविंशत्यधिकपञ्चधनुश्शतप्रमाणायामवगाहनायां सिद्ध्यन्ति, यथा मरुदेवीका -
१. तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिषु व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि विज्ञेयम् ॥ २. यथा भगवान् ऋषभस्वामी सुषमदुःषमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्धमानस्वामी तु भगवान् दुःषमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु सिद्धिसौधमध्यमध्यास्तेति ॥ उत्सर्पिण्यां चतुर्विंशतितमस्तीर्थकर स्षम दुष्षमाया मेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्व लक्षातिक्रमे च सिद्धयतीति ॥