________________
: ३०२ :
तत्त्वन्याय विभाकरे
[ दशमकिरणे
लवर्त्तिनः, मरुदेव्यामपि यथोक्तप्रमाणावगाहना द्रष्टव्या, जघन्येन द्विहस्तप्रमाणायाम, यथा वा मनककूर्मसुतादीनाम् । तीर्थकृतान्तु जघन्यावगाहना सप्तहस्तप्रमाणा महावीरवत् । उत्कृष्टा पञ्चधनुश्शतमाना नाभेयवत्, शेषास्त्वजघन्योत्कृष्टाः । अन्तरतः --जघन्यत एकसमयः, उत्कृष्टतः षण्मासाः, निरन्तरञ्च जघन्यतो द्वौ समयौ, उत्कृष्टतोऽष्टौ समयाः, संख्यात: -- जघन्यत एकस्मिन् समये एकस्सिद्ध्यति, उत्कर्षेणाष्टाधिकं शतम् । तथा चास्मिन् भरतक्षेत्रेऽस्यामवसर्पिण्यां भगवतो नाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरं शतमेकसमयेन सिद्धम् | अल्पबहुत्वतः - युगपत् द्वित्र्यादिकाः सिद्धाः स्तोका एककाः सिद्धाः संख्येयगुणा इति संक्षेपतः प्रदर्शितानि द्वाराणि विस्तरतस्तु सिद्धप्राभृतादौ द्रष्टव्यानि ॥
10
अथ तीर्थलिङ्गबुद्धद्वाराणि मनसि कृत्य पुनः प्रकारान्तरेण सिद्धानाह—
सिद्धा अपि जीनाजिनतीर्थातीर्थ गृहिलिङ्गान्यलिङ्गस्वलिङ्गस्त्रीलिङ्गपुरुष लिङ्गनपुंसकलिङ्गप्रत्येक बुद्धस्वयम्बुद्धबुद्धबोधितैकानेक सिद्धभेदेन पञ्चदशविधाः ॥
सिद्धा इति । अयम्भाव:, सिद्धानामयं भेदो न वास्तविकः कृत्स्नकर्मक्षयस्य केवलज्ञानादीनाञ्च सर्वत्राविशेषात् किन्तु सिद्धत्वप्राप्तिपूर्वकालीनभवावस्थामाश्रित्य वाच्यः । तत्रा15 येते नासंकीर्णाः, जिनाजिनरूपे, तीर्थातीर्थरूपे, एकानेकरूपे वा भेदद्वये, गृहिलिङ्गान्यलिङ्गस्वलिङ्गरूपे स्त्रीलिङ्गपुरुषलिङ्गनपुंसकलिङ्गरूपे, प्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितरूपे वा भेदये शेषभेदानामन्तर्भावात्, किन्तु विशेषपरिज्ञानार्थमेव ग्रन्थारम्भ इति ॥
अथ जिन जिनसिद्धानाह -
अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता जिनसिद्धाः | 20 यथा ऋषभादयः, अननुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता अजिनसिद्धाः । यथा पुण्डरीकगणधरादयः ||
१. नाभिकुलकर पत्नी मरुदेवी, नाभेश्व शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यधिकानि यावदासीत्, तत्पत्नीत्वेऽपि तस्याः प्रमाणतस्तदपेक्षया किञ्चिन्नन्यूनत्वमेवेति सम्प्रदायः कियता न्यूनाधिक्येऽपि समत्वातिदेशानामागमे दर्शनेनाबाधकत्वात् । अथवा तस्या हस्तिस्कन्धाधिरूढायास्सिद्धत्वात् हस्तिस्कन्धाधिरूढानाञ्च संकुचिताङ्गत्वेन नोक्तावगाहनाया विरोधः उक्तञ्च 6 अहवा संकोयओ सिद्धा' इति ॥ २. अत्रेदं बोध्यम् सिद्ध केवलज्ञानं हि द्विविधं अनन्तरसिद्ध केवलज्ञानं परम्परसिद्ध केवलज्ञानश्चेति । सिद्धत्वप्रथमसमये वर्त्तमानस्य केवलज्ञानमाद्यं विवक्षित सिद्धत्व प्रथमसमयाद् द्वितीयादिषु समयेषु अनन्तामद्धां यावद्वर्तमानानां केवलज्ञानं द्वितीयम् । तत्रानन्तरसिद्ध केवलज्ञानं पञ्चदशविधं तच्च सिद्धत्व प्राप्यव्यवहितपूर्वकालीनभवावस्थामाश्रित्य सिद्धाः पञ्चदशविधाः प्रोक्ताः । परम्परसिद्ध केवलज्ञानन्त्वनेकविधं तच्चाप्रथमसमयसिद्धद्विसमय सिद्धत्रिसमयसिद्धचतुस्समयसिद्धादिभेदतो भाव्यमिति ॥