________________
:३०० : तत्त्वन्यायविभाकरे
[ दशमकिरणे - संसार्यात्मसंख्यापेक्षया कियद्भागे सिद्धा इति विचारो भागद्वारम् । अनन्तानन्तमंसारिजीवापेक्षया अनन्ता अपि मिद्धास्तदनन्तभागे भवन्ति ॥
संसारीति । संसारिजीवराश्यपेक्षया सिद्धाः कस्मिन् भागे वर्तन्त इति विचारो भाग5 द्वारमित्यर्थः । उत्तरयति अनन्तेति । जीवसंख्या मध्यमानन्तानन्तसंज्ञकाष्टमानन्तप्रमाणा, तदपेक्षया सिद्धानामनन्तत्वेऽपि अनन्ततमे भागेऽवतिष्ठन्ते ते, तेषां पञ्चमानन्तसंख्याप्रमितत्वादिति भावः ॥
सम्प्रति भावद्वारमाख्यातुं भावानाह
औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पञ्च भा10 वाः । कर्मणामुपशमेनौपशमिकः, क्षयेण क्षायिकः, क्षयोपशमाभ्यां क्षा
योपशमिकः, उदयेनौदयिकः, स्वभावावस्थानेन च पारिणामिको ज्ञेयः । एषु सिद्धाः कतमस्मिन् भावे वर्तन्त इति विचारो भावद्वारम् । तेषां ज्ञानदर्शने क्षायिके जीवत्वञ्च पारिणामिकमिति भावद्वयं स्यात् ॥
औपशमिकेति । तान स्वरूपयति कर्मणामिति, कर्मणामनुद्भूतस्ववीर्यता उपशमस्तेन 15 निर्वृत्तो भाव औपशमिकः, स द्विविधः औपशमिकसम्यक्त्वचारित्रभेदात् , दर्शनचारित्र
मोहनीयोपशमजन्यावेतौ भेदौ । क्षयेणेति, कर्मणामत्यन्तोच्छेदेन निवृत्तः क्षायिको भाव इत्यर्थः, ज्ञानदर्शनदानलाभभोगोपभोगवीर्यसम्यक्त्वचारित्रभेदेन नवविधः, केवलज्ञानदशनावरणीयान्तरायपञ्चकदर्शनचारित्रमोहनीयक्षयजन्या एते भावाः । क्षयोपशमाभ्यामिति । कर्मणामेकदेशक्षयेणैकदेशोपशमनाच्च जातः क्षायोपशमिकः, ज्ञानचतुष्काज्ञानत्रयदर्शनत्रिकलब्धिपश्चकसम्यक्त्वचारित्रसंयमासंयमरूपेणाष्टादशविधः, तत्तत्कर्मणां क्षयोपशमजन्यः । उद
येनेति, द्रव्यादिनिमित्तककर्मफलप्राप्तिरूपोदयफलको भाव औदयिकः, गतिचतुष्टयकषा.- यचतुष्कवेदत्रयमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याषट्कभेदेनैकविंशतिविधस्तत्कर्मोदयजः ।
द्रव्यात्मलाभमानहेतुकः परिणाम स एव तेन वा निवृत्तः पारिणामिकः, जीवत्वभव्यत्वाभव्यत्वादयः । द्वारार्थमाहै ध्विति प्रोक्तेषु भावेष्वित्यर्थः । क्षायिके ज्ञानदर्शनादौ पारि5 णामिके जीवत्वे नतु भव्यत्वादौ तनिषेधात् सिद्धानां वृत्तिरित्यभिप्रायेणोत्तरयति तेषामिति ___ भावद्वयमिति क्षायिकपारिणामिकरूपभावद्वयमित्यर्थः ।।
12- अधुनाऽल्पबहुत्वद्वारमाह