________________
अन्तरद्वारम् ]
न्यायप्रकाशसमलङ्कते यावत्प्रमाणं शरीरं तस्य त्रिभागोना तावत्येवावगाहनेति कथमसंख्यातत्वमिति चेत् तत्र, असंख्यातराशेरसंख्यातभेदभिन्नत्वेनाविरोधात ॥
स्पर्शनाद्वारं प्ररूपयति
सिद्धात्मनोऽवगाहनाकाशपरिमाणतस्पर्शना कियतीति विचारस्स्पर्शनाप्ररूपणा । अवगाहनातस्तेषामधिका स्पर्शना भवति ॥ 5 . सिद्धेति । सिद्धस्य स्वावगाढाकाशप्रदेशैस्स्पर्शना किं न्यूनाऽधिका तुल्या बेति प्ररूपणमिति भावः । अभिव्याप्तिलक्षणाऽवगाहना, स्पर्शना तु सम्बन्धमात्ररूपेति विशेषः । अधिकत्वमेवेत्यभिप्रायेणाहावगाहनात इति, यथैकप्रदेशावगाढस्य परमाणोस्सप्तप्रदेशा स्पर्शना तथैव यावति क्षेत्रे एकस्सर्वे वाऽवगाढास्तावतः क्षेत्रस्य येऽनन्तरास्सर्व दिग्प्रदेशास्ते तैस्पृश्यन्त इति स्पर्शनाधिकेति भावः ॥
10 अथ कालद्वारं वक्तिसिद्धावस्थानं कियत्कालमिति विचारः कालद्वारम् । व्यस्यपेक्षया साधनन्तो जातिमाश्रित्यानाद्यनन्तः स्यात् ॥
सिद्धावस्थानमिति । स्थितिमतोऽवधिपरिच्छेदार्थ जीवैस्सिद्धत्व कियन्तं काळं धार्यत इति प्रश्ने विचारः कालद्वारमित्यर्थः । उत्तरयति व्यक्त्यपेक्षयेति, एकजीवापेक्षयेत्यर्थः, यदा सः 15 सिद्धतां गतस्तदातस्य सिद्धत्वमुपजातमिति सादित्वं, ततस्तस्य प्रलयाभावाचापर्यवसितत्वमिति भावः । जातिमाश्रत्येति,सर्वसिद्धापेक्षयेत्यर्थोऽनाद्यनन्त इति,सिद्धशून्यकालाभावादिति भावः।।
अन्तरद्वारमाख्याति
परित्यक्तस्य पुनः परिग्रहणावान्तरकालविचारोऽन्तरप्ररूपणा । सिद्धानां प्रतिपाताभावादन्तरं नास्तीति ध्येयम् ॥
20 . परित्यक्तस्येति । कस्यचित्पर्यायस्य कारणान्तरवशान्यग्भावे सति पुनर्निमित्तान्तर. संयोगात्तस्यैवाविर्भावो दृश्यते, प्रकृतेऽपि सिद्धत्वपर्यायस्य न्यग्भावे सति पुनस्तत्प्राप्तिः कियत्कालानन्तरं भवतीति संशये यो विचारस्सोऽन्तरप्ररूपणेत्यर्थः । उत्तरमाचष्टे सिद्धा. नामिति, आवरणकारणानां सर्वथाऽसम्भवादिति भावः ॥...........
अथ भागद्वारमाह
25