________________
: १९८ :
तस्वन्यायविभाकरे
[ दशमकिरणे
शुद्धाऽपायसद्रव्यरहिता भवस्थकेवलिनां सिद्धानाश्च शुद्धजीवस्वभावरूपा सम्यग्दृष्टिः सा द्यपर्यवसाना, अशुद्धा चापायसहचारिणी श्रेणिकादेखि सम्यग्दृष्टिः सादिसपर्यवसाना, प्रत्युत्पन्ननयापेक्षयाऽशुद्धे क्षायिके न सिद्धसम्भवः, अनन्तरपश्चात्कृतनयापेक्षयाप्येवमेव । एकान्तरनयापेक्षया तु अशुद्ध क्षायिकादावपि । अनाहारकेति प्रत्युत्पन्ननयापेक्षयेदम, 5 केवलज्ञान केवलदर्शनेति । प्रत्युत्पन्ननयापेक्षयाऽनन्तर पश्चात्कृतनयापेक्षया तु द्वाभ्यां त्रिभिचतुर्भिरपि ज्ञानैरेवमेकान्तरितेऽपि बोध्यम् । न शेषेष्विति, योगवेदकषायलेश्यास्वित्यर्थः । यथासम्भवं प्रत्युत्पन्नानन्तर पश्चात्कृतनयापेक्षयैव मुक्तिरिति ॥
अथ द्रव्यप्रमाणद्वारमाह
सिद्धजीवसंख्या निरूपणं द्रव्यप्रमाणम् । तच्च सिद्धजीवानामनन्तत्वं 10 बोध्यम् ॥
सिद्धेति । सिद्धानां जीवद्रव्याणां या संख्या परिगणनात्मिका तस्या निरूपणमित्यर्थः । संख्यामाह तचेति द्रव्यप्रमाणश्चेत्यर्थः, अनन्तत्वमिति, आगमप्रसिद्धानन्तसंख्या प्रमितत्वमित्यर्थः । नवविधेऽनन्ते मध्यमयुक्तानन्तसंज्ञोपलक्षितायां पञ्चमानन्तसंख्यायां न कदाचन व्यभिचारित्वमिति भावः । तथा सर्वजीवानामनन्तभागेऽनन्तगुणा अभव्येभ्य इत्यपि बोध्यम् ॥ 15 सम्प्रति क्षेत्र चिन्तायामाह -
चतुर्द्दशरज्जुप्रमितस्य लोकस्य कियद्भागे सिद्धस्थानमिति विचारः क्षेत्रद्वारम् | लोकस्यासंख्येयभागे सिद्धशिलोर्ध्वं सिद्धस्थानं, असंख्येयाकाशप्रदेशप्रमाणं सिद्धानां क्षेत्रावगाहो ज्ञेयः ॥
चतुर्द्दशेति । निर्ज्ञातसंख्यानामेषां निवासे विप्रतिपत्तिर्जायते कियन्तमाकाशमेते व्या20 नुवन्ति कियद्भागञ्च नेत्यतस्तन्निरूपणार्थं क्षेत्रद्वारमिति भावः । धर्माधर्मपरिच्छिन्नो जीवाजीवाधारक्षेत्रं लोकः, तन्मानं चतुर्दशरज्जुः, उत्तरयति लोकस्येति, सिद्धशिलाया ऊर्ध्वं लोकस्यासंख्येयभागे समस्तास्सिद्धा एको वाऽऽश्रितः, असंख्येयाकाशेति । एकसिद्धजीवापेक्षया सर्वसिद्धजीवापेक्षया वेदम् । एकस्यापि जीवस्यासंख्येयप्रदेशत्वादसंख्येयभाग एवागाहः, सर्वावगाहचिन्तायां बृहत्तमोऽसंख्येयभागः, एकावगाहे तु लघुतम इति विशेष:, 25 सिद्धानां बाहुल्यमानमङ्गीकृत्योत्कर्षतः क्रोशषष्ठभागेऽवगाहना, दैर्ध्य पृथुत्वाभ्यान्तु पञ्चचत्वारिंशद्योजन लक्षप्रमाणं सिद्धावगाहक्षेत्रं, तस्य वृत्तसंस्थानत्वात् । एकावगाहस्य तु यस्य