________________
5
मार्गणासु सिद्धाः ] न्यायप्रकाशसमलते। तावस्थायां तृतीयचतुर्थपश्चमसमयेषु शैलेश्यवस्थायाश्च हुस्वपञ्चाक्षरोद्गिरणकालमात्रं, सिद्धाश्च सदैवानाहारका इति भावः ॥
इत्येवं चतुर्दशमूलमार्गणोत्तरभेदानाख्यायाऽऽसु सिद्धसत्ता केति निरूपयति- -
तत्र नरगतिपञ्चन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यातक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ।
तत्रेति । चतुर्दशमार्गणावान्तरभेदमधिकृत्येत्यर्थः । नरगतीति, अनन्तरपश्चात्कृतनयमधिकृत्य नरगतौ मुक्तिः प्राप्यते न शेषासु गतिषु, पाश्चात्यमेकान्तरं गतिविशेषमधिकृत्य पुनस्सामान्यतश्चतसृभ्योऽपि गतिभ्य आगतस्सिद्ध्यति । सिद्धप्रस्तावासिद्ध इत्यनुक्त्वा मोक्षपदग्रहणं कर्मक्षयसिद्धैरिहाधिकारस्तेषामेव मोक्षपर्यायेणानन्यत्वादिति सूचनाय, तेन कर्मशि- . ल्पविद्यामन्त्रयोगागमार्थयात्राभिप्रायतपःसिद्धानां व्युदासः । अनन्तरैकान्तरपश्चात्कृतौ नयौ 10 नैगमसङ्ग्रहव्यवहाररूपी सकलार्थग्राहित्वात् , वर्तमानकालार्थग्राहकर्जुसूत्रशब्दसमभिरूद्वैवम्भूतनयरूपप्रत्युत्पन्नभावापेक्षया तु सिद्धस्सिद्धगतौ सिद्ध्यति । पञ्चेन्द्रियजातीति, अनन्तरपश्चात्कृतजात्यपेक्षयेदम् , नर एंव सन्यतः सिद्ध्यत्यत एव पश्चेन्द्रियजातावेवेति भावः, एकान्तरितपश्चात्कृतजात्यपेक्षया त्वन्यतमस्यां जातौ प्रत्युत्पन्नभावापेक्षया च नैकस्यामपीन्द्रियमार्गणायां सर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तेरिति भावः। त्रसकायेति, अत्रापि पूर्वव- 15 देव भाव्यम् । भव्येति, अनन्तरैकान्तरितपश्चात्कृतनयापेक्षयेदम् , भव्यानामेव सिद्धि बोध्याऽ भव्यानान्तु कथमपि सिद्ध्यभावात् , प्रत्युत्पन्ननयापेक्षया तु सिद्धो न भव्यो नाप्यभव्य इति । संज्ञीति, पूर्ववदेव । यथाख्यातेति, अनन्तरपश्चात्कृतनयापेक्षयेदम् , एकान्तरपश्चात्कृतनयापेक्षया तु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्या- 20 तचारित्रिणः केचित्तु सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, तीर्थकृतस्तु सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव । प्रत्युत्पन्ननयापेक्षया सिद्धो न चारित्री नाप्यचारित्रीति । क्षायिकेति, क्षायिकं द्विविधं शुद्धमशुद्धश्च, तत्र क्षायिकी
१. अष्टविधकर्मदहनानन्तरं सिद्धस्यैव सतस्सिद्धत्वमुपजायते नासिद्धस्य, तदात्मनो हि स्वाभाविक सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव न पुनरसदुपजायते न ह्यसतः खरविषाणादेर्जन्म भवति सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति भावः ॥ २. यस्य हि सिद्धिर्भाविनी स भव्य उच्यते, सिद्धस्य तु न सा भाविनी साक्षात्सजातत्वात् , ततोऽसौ न भव्यो नाप्यभव्य इति भावः ॥
३८