________________
: २९६ :
न्यायविभाकरे
[ दशमकिरणे.
करणाय प्रवृत्तिनिवृत्तिरहिता एव । दृष्टिवादोपदेशेन तु क्षायोपशमिके ज्ञाने वर्त्तमानरसम्यदृष्टिरेव संज्ञी सम्यग्ज्ञानयुक्तत्वात्, मिध्यादृष्टिः पुनरसंज्ञी सम्यग्ज्ञानसंज्ञारहितत्वादिति ॥ आहारक मार्गणाभेदमाचष्टे
आहारकानाहारकभेदेन द्विविधाऽऽहारकमार्गणा । आहारकरण5 शीला आहारकास्तद्भिन्ना अनाहारकाः ।
आहारकेति । आहरणमाहारो ग्रहणमभ्यवहारो वा स चौजोलोमप्रक्षेपरूपेण त्रिविधः । यावदौदारिकं शरीरं न निष्पद्यते तावत्तैजससहितेन कार्मणेन यदाहारयति स ओजआहारस्तेनाहारकास्सर्वेऽप्यपर्याप्तकाः । तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजससहितेन कार्मणेन तप्तस्नेह पतितापूपकवत्तत्प्रदेशस्थानात्पु10 गलानादत्ते तदुत्तरकालमपि यावदपर्याप्तकावस्थां स ओज आहारः । शरीरपर्यायुत्तरकालं बाया त्वचा लोमभिराहारो लोमाहारः, इन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषाञ्चिन्मतेन शरीरपर्याप्ता वा लोमोहारिणो भवन्ति । प्रक्षेपेण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिरस्थानैराहारसद्भावाद्भवति । पर्याप्तका यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदैव, स च लोमाहारोऽष्टमतां 15 न दृष्टिपथमवतरति प्रायशः प्रतिसमयवर्ती च । प्रक्षेपाह । रस्तूपलभ्यते प्रायस्स च नियत कालीयः देवकुरूत्तरकुरुप्रभवा अष्टमभक्ताहाराः, संख्येयवर्षायुषामनियतकालीयः प्रक्षेपाहारः । एकेन्द्रियाणां देवनारकाणाञ्च नास्ति प्रक्षेपः, पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाऽऽहरणालो मांहारः, द्वीन्द्रियादीनां तिर्यङ्मनुष्याणाञ्च प्रक्षेपाहारस्तमन्तरेण कायस्थितेरेवाभावात् । अन्ये
यो जिह्वेन्द्रियेण स्थूलशरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातु20 भावेन परिणमति स ओज आहारः, यः पुनरस्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन प्रयाति स लोमाहार इति वदन्ति । तदेतदाहाऽऽहारकरणशीला इति त्रिविधान्यतमाहारकरणशीला इत्यर्थः । अथानाहारकानाह तद्भिन्ना इति त्रिविधाहारिभिन्ना इत्यर्थः । विग्रहगतौ वक्रगतिमापन्ना वक्रद्वये त्रिसमयोत्पत्तावेकस्मिन् समये, वक्रत्रये चतुस्समयोत्पत्ति के मध्यवर्त्ति - नोर्द्वयोस्समययोर्वक्रचतुष्टये पञ्चसमयोत्पत्तिके मध्यवर्त्तिषु त्रिषु समयेषु, केवलिनस्समुद्धा -
१. क्षायिकज्ञाने वर्त्तमानोऽपि दृष्टिवादोपदेशेन न संज्ञी, अतीतार्थस्मरणस्यानागतचिन्तायाश्च केवलिन्यभावात्, तज्ज्ञानस्य सर्वदा सर्वार्थावभासकत्वादिति भावः ॥ २. तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तच्छायया शीतवायुनोदकेन च प्रीयते प्राणी, गर्भस्थोऽपि पर्याप्त्युत्तरकालं लोमाहार एवैति ॥ ३ तंत्र देवानां मनसा परिकल्पिताश्शुभाः पुद्गलास्सर्वेणैव कायेन परिणमन्ति, नारकाणान्त्वशुभा इति विज्ञेयम् ॥