________________
संशिमार्गणा
न्यायप्रकाशसमलते कक्षयात्क्षायिकं सम्यक्त्वं भवति, तथोदीर्णस्य मिथ्यात्वमोहनीयकर्मणः क्षयादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच्च क्षायोपशमिकं सम्यक्त्वं भवति । पुनरनन्तानुबन्धिकषायोदयेनौपशमिकसम्यक्त्वाञ्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतस्समयप्रमाणमुत्कृष्टतषडावलिकाः सास्वादनसम्यक्त्वं भवति । वेदकसम्यक्त्वेन पूर्वोक्तानि चत्वारि गृहीत्वा सम्यक्त्वस्य पञ्चविधत्वमपि । क्षपकश्रेणिं 5 प्रतिपन्नस्यानन्तानुबन्धिकषायचतुष्टयं क्षपयित्वा मिथ्यात्वमिश्रपुञ्जेषु सर्वथा क्षपितेषु सम्यक्त्वपुञ्जमप्युदीर्यानुभवेन निर्जरयतो निष्ठितोदीरणीयस्य चरमग्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते । नन्वेवं सति क्षायोपशमिकेनास्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् , सत्यं किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तं, इतरत्तूदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, 10 परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयाच्चरमग्रासवर्त्तिनान्तु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । पुञ्जत्रये च तस्मिन् अशुद्धस्य पुञ्जस्योदयान्मिथ्यात्वं जीवस्य भवत्यकृतपुञ्जत्रयस्य वा, तस्य च सम्यक्त्वप्रतिपक्षितयात्र ग्रहणं मार्गणोपयोगित्वादिति ॥.
संज्ञिमार्गणाभेदं विभजते
संज्यसंज्ञिभेदेन द्विधा संज्ञिमार्गणा । समनस्कास्संज्ञिनो मनोहीना असंज्ञिनः ॥
संज्ञीति । संज्ञा दीर्घकालोपदेशिकी हेतुवादोपदेशिकी दृष्टिवादोपदेशिकी चेति त्रिविधा। तत्रैतत्करोम्यहमेतत्कृतं मया करिष्याम्येतदहमित्यादित्रैकालिकवस्तुविषयां संज्ञा यो धारयति स संज्ञी, स च गर्भजस्तिर्यङ्मनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तः। तद्विपरीतोऽसंज्ञी तथावि- 20 धत्रिकालविषयविमर्शशून्यः, स च संमूछिमपञ्चेन्द्रियविकलेन्द्रियादिरित्याशयेनाह समनस्का इति। ये पुनरिष्टानिष्टवस्तुषु सञ्चिन्त्य सञ्चिन्त्य स्वदेहपरिपालनहेतोरिष्टेषु वर्त्तन्तेऽनिष्टेभ्यस्तु निवर्तन्ते प्रायेण साम्प्रतकाल एव, नातीतानागतकालयोः, ते हेतुवादोपदेशिकीसंज्ञया संज्ञिनो द्वीन्द्रियादयस्तद्विपरीता असंज्ञिनः पृथिव्यादयः, द्वीन्द्रियादेरपि प्रतिनियतेष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनेन वार्तमानिकमानसिकपर्यालोचनवत्त्वात्, पृथिव्यादयस्तु धर्माद्यमितापेऽपि तन्निरा- 25
15
: १. दीर्घकालोपदेशिकीमित्यर्थः, इह सर्वत्र च संज्ञित्वासंज्ञित्वव्यवहार एतत्संज्ञापेक्षयैव भवतीति विज्ञेयः ॥ २. हेतुवादोपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि संज्ञित्वेनाभ्युपगमादिति भावः ॥