________________
तस्वन्यायविभाकरे
[ दशमकिरणे ततुल्यत्वात् ततो न सर्वभव्यानामुच्छेदो युक्तः सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमनसम्भवस्योपदर्शितत्वादित्येतत्सर्वमभिप्रेत्योक्तं तत्रेति ।।
अथ सम्यक्त्वमार्गणाभेदमाचष्टे
औपशमिकक्षायोपशमिकक्षायिकसास्वादनवेदकमिथ्यात्वरूपेण षट्5 सम्यक्त्वमार्गणाः॥
औपशमिकेति । उपाधिभेदाविवक्षया सम्यक्त्वमेकविधम् , सम्यक्त्वश्चाज्ञानसंशयविपर्ययनिरासेनेदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः । उपाधिभेदात्तु द्विविधं त्रिविधं चतुर्विधं पञ्चविधं दशविधं । तत्र द्विविधं
द्रव्यतो भावतो वा, निश्चयेन व्यवहारेण वा, पौद्गलिकापौद्गलिकभेदेन वा, नैसर्गिका10 धिगमिकभेदतो वा । कारकरोचकदीपकभेदेन क्षायिकौपशमिकक्षायोपशमिकभेदेन
वा त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदेन चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदेन पञ्चविधम् , इदमेव च प्रत्येकं निसर्गाधिगमभेदेन दशविधं विज्ञेयम् । द्विविधन्तु पूर्वमादर्शितम् । त्रिविधमुच्यते, कारकं सूत्रोक्ताज्ञाशुद्धा
क्रिया, तस्याः परगतसम्यक्त्वस्योत्पादकत्वेन सम्यक्त्वं, ताशक्रियावच्छिन्नं वा सम्यक्त्वं 15 कारकसम्यक्त्वमेतञ्च विशुद्धचारित्रिणां भवति । यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं
न पुनः कारयति तद्रोचकं यथा श्रेणिकादीनाम् । स्वयं मिथ्यादृष्टिरभव्यो वा धर्मकथया परेभ्यो जीवादिपदार्थान् दीपयति तद्दीपकं, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वं कथमुच्यते विरोधात्, मैवम् , मिथ्यादृष्टेरपि सतस्तस्य यो व्यापारविशेषस्स खलु प्रति
पत्तॄणां सम्यक्त्वस्य कारणमतः कारणे कार्योपचारादायुघृतमितिवत् सम्यक्त्वमित्युच्यते । 20 अथ चतुर्विधं, मिथ्यात्वमोहनीयस्य कर्मणो यो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य
भस्मच्छन्नाग्निवद्विष्कम्भणमुपशमस्तस्मादौपशमिकं सम्यक्त्वं भवति, तत्तूपशमश्रेणिमनुप्रविष्टस्य जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति, तथा प्रथमतोऽनादिमिथ्यादृष्टेस्सतो जीवस्य योऽसौ सम्यक्त्वलाभस्तस्मिन् वौपशमिकं सम्यक्त्वं भवति । अनन्तानुबन्धिकषायक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वलक्षणत्रिविधदर्शनमोहनीयकर्मण आत्यन्ति.
१. विशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव द्रव्यतः सम्यक्त्वं, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, देशकालसंहननानुरूपं यथाशक्ति मुनिवृत्तं-यथावत्संयमानुष्ठानरूपं सम्यक्त्वं नैश्चयिकम् । सम्यक्त्वहेतुसहित उपशमादिलिङ्गगम्यश्शुभात्मपरिणामो व्यावहारिकसम्यक्त्वम् । क्षायोपशमिक पौद्गलिकसम्यक्त्वं क्षायिकमौपशमिकच्चापौद्गलिकमिति भावः ॥